________________
.
८६. श्रीनेमिनाथस्तोत्रसङ्ग्रहः भोः ! किं लोभऽविलोभनैरपकुरु त्वं मान ! मानं प्रभु- र्युष्मद्वर्गनिसर्गनिग्रहपटुः श्रीनेमिरग्रे यतः ॥२४॥ बीजाकृत्य तव क्रमाम्बुजनखज्योस्नाङ्करध्यानतो, ये दोषोपशमेनमानसमहीमेतामुपस्कुर्वते । तेषामन्तरनन्तमभ्युदयते नित्योपयोगं जगद्द्योति-ज्योतिरसीमसम्मदभरस्थूलभविष्णुः प्रभो ! ॥२५॥ स्वामिन् ! विश्ववतंस ! तं समधिकाऽऽनन्दा[न]वद्यं गिरिं, यद्यारूह्य भवेयमद्भुतभवद्ध्यानैकतानव्रतः । आस्तां तच्चतुरम्बुराशिरसनासाम्राज्यलक्ष्मीरियं, श्रीमन्नेमिजेन्द्र ! [नेन्द्र] पदवीमप्यऽर्थये तामहम् ॥२६॥ दुःखैः खेलतु जन्म सज्जतु जरा गर्जन्तु गर्वै रुजो, मृत्युर्माद्यतु दुर्गतत्वमुदयत्वेका त्वियं निर्मलामा श्रीनेमिजिनेश ! नेशदनिशं त्वत्पादपद्मद्वयी, भक्तिर्भग्नगतीन्यमूनि न यतः सर्पन्ति दृप्यन्त्यपि ॥२७॥ चेतश्चेतयते तदेव कृतिनां श्रेयस्करौ तौ करौ, तन्नित्येक्षणमीक्षणाम्बुजयुगं वाणी च सा वाणिनी । सच्चारित्रवहित्र ! तत्रभवतोऽनुध्यानसेवाञ्जलि, व्यालोकस्तुतिकीर्तनानि भवतो यान्यन्वहं तन्वते ।।२८।। तेषां॰ [सा] सुरभिर्न कामसुरभिः स्वल्पः स कल्पद्रुमश्चैतन्यानुचितः स चिन्तितम[त]श्चित्तेऽपि नाऽऽरोहति मध्ये मानसमभ्युदेति कृतिनां येषामशेषार्तिहन्नित्यानन्दमरन्दमन्दिरमिदं त्वत्पादपद्मद्वयम् ॥२९|| मुक्तिः स्वामिसमानमानमलिना कस्यास्तु कामास्पदं, लक्ष्मीस्तु त्वदुपास्तिसंवनकरी केयं वराकी ततः ।
९. प्रतौ 'मानः' इति पाठः । १०. प्रतौ 'येषां' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org