________________
उज्जयन्ताचलमण्डननेमिजिनद्वात्रिंशिका- • ८५ धात्री रैवतकोत्तमाङ्गसुभगा सेयं सुराष्ट्राभिधा, भूमिः कौतुकधाम नाम न कथं सौभाग्यभङ्गी विभोः । यस्यास्त्वं सुमन:समूहमहिमाऽऽरम्भोद्भवे: सौरभो, मूर्धन्यश्रियमाश्रितः प्रतनुषे धम्मिल्ललीलायितम् ॥१९।। त्वल्लावण्यसुधामधीश ! धयतां नेत्राम्बुजव्यञ्जलं, यन्नृणामनिमेषता तदमरश्रीवर्णिकाढौकनम् । यत्त्वेते किल विस्मयाकुलतया मूर्धानमाधुन्वते, तन्मन्ये शिवसौख्यलीनमनसो वाञ्छन्ति नैतामपि ॥२०॥ स्वामिन् ! यौजनिकी तव त्रिजगतामाकर्ण्य कामुभाका[?]कीर्णसुधावितीर्णविशदश्रीभारती भारतीम् । यैस्तिर्यग्भिरपि प्रशान्तहृदयैस्त्यक्तः स वैरज्वरस्तेषां नाथ ! कथं तु पुण्यमहसां माहात्म्यमाशास्महे ।।२१।। रे कन्दर्प ! सदर्पमर्पयसि किं बाणानि बाणासने, सन्नद्धो मधुनापि सार्द्धमधुना धिक् किं सुधा धावसि । चेतो रैवतदैवतप्रभुपदानुध्यानतो मन्यते, यन्मे जैत्रमपि त्वदस्त्रममरास्त्रेणं तृणायापि न ॥२२॥ रोहन्मोहमहाद्भुतं गुरुतरद्धेषद्विषदूषितं, स्फुर्जज्जागररागसागरमरे किं भ्राम्यदुत्ताम्यसि । चेतश्चिन्तय चिन्मयं मधु-सुधामाधुर्यवैधुर्यकृत्, तल्लोकोत्तरसम्मदप्रदमहो श्रीनेमिसझं महः ॥२३॥ . श्वैरं किं मद ! माद्यसि स्फुरति ते कः क्रोध ! योधक्रमः, श्रेयोघस्मर ! विस्मर स्मर ! शरान् मा त्वं मदः संमद ! ।
८. प्रतौ 'धत्तां' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org