________________
८४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः कारुण्यं कुरुषे पशुष्वपि जने नास्मिन्ननन्यप्रिये, साम्राज्यश्रियमुज्झसीश ! विरतिं यत्प्रेयसीं मन्यसे । तत्को नाम विदाङ्करोतु गहनं चित्रं चरित्रं तवेत्येवं नेमिजिनोऽस्तु वोऽन्वयजनोपालम्भभाग् भूतये ॥ १३ ॥ देव ! त्ववदने क्षणप्रसृमरैरानन्दबाष्पोर्मिभिः, सिक्तं नेत्रमिदं सदास्तु सुधियां रोमाङ्कुरैरङ्कितम् । क्षेत्रज्ञोऽपि यदत्र पुण्यनिकरैः प्रौढप्ररूढाङ्कुरो, जन्मारामविराममारचयितुं चित्रीयते तत् पुनः ॥१४॥ मौलौ पाणिसरोजयुग्ममनिशं कोशीभवत्युच्चकैयेषामीश ! भृशं भवन्ति कृतिनः कोशास्पदं ते श्रियः । त्वत्पादप्रणिपातनिर्मितसकृत्पञ्चाङ्गसङ्गाः पुनः, सप्ताङ्गं विलसन्ति यद्वसुमतीं नित्यं तवेत्यद्भुतम् ॥१५॥ पाताले वितनोति पन्नगवधूवर्गस्य पर्वानिशं, क्षीराम्भोनिधिमज्जनं जनयति क्षोणीजनेष्वन्वहम् । अक्षाराम्बुधिजा सुधेव दिवि यत् तद् भूर्भुवः स्वस्त्रयीश्रेयः सन्ततिमाततान किमिव ब्रूमस्त्वदीयं यशः ||१६|| यैरत्युग्रनृपोग्रसेनविधृतैर्मुक्तैस्त्वमेव स्मृतो, गाढग्रन्थिनिरोधवञ्चनविधेरुन्मोचिता ये त्वया ।
ये दृष्टाः करुणारसाऽर्णवसुधावृष्ट्या च दृष्ट्या त्वया, धनेभ्यः स्पृहयामि मान[?] भगवंस्तेभ्यः पशुभ्योऽप्यहम् ||१७|| देव ! श्रीयदुवंशपल्वलजलैकाऽम्भोजभोजात्मजासङ्कल्पोपनतप्रियत्रिजगतीकस्तूरिकास्थासक ! । आदिक्चक्रविसृत्वरे तव यशश्चन्द्रे सदा पर्वणि, ध्वान्तध्वंसिनि हारिणि विजयते मूर्तिस्तवैव प्रभो ! ||१८||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org