________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||२३
-२४||
दीप
अनुक्रम [२३-२४]
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं ||२३-२४||
मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [ ३० - वृ] प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
सीया० ॥ 'सीयावे 'त्ति शिथिलत्वं प्रापयति मुनीनामिति शेषः कं प्रति ? - विहारं प्रति अथवा 'सीयावेइ'त्ति स्वयमलसो भवति, क्व ? - विहारे, अत्र "सप्तम्या द्वितीये" ति प्राकृतसूत्रेण सप्तम्यर्थे द्वितीयेति, अत्र विहारस्वरूपं बृहत्कल्पादिभ्यो यथा-साधूनां ग्रामनगरराजधान्यादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतिरहितेषु एकं मासं यावद्वस्तु कल्पते कारणं विना हेमन्तग्रीष्मयोः, कारणे तु पाटकपरावर्त्तनं क्रियते, तदभावे गृहपरावर्त्तनं, तदभावे वसतावेव स्थानपरावर्त्तनं, न त्वेकस्थानवसनमिति, ग्रामादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतियुकेषु मासद्वयं यावद्वस्तुं कल्पते हेमन्तग्रीष्मयोः, मासमेकमन्तः वहिरेकं च, यत्रैव वसति तत्रैव भिक्षाचर्या भवति, एवं साध्वीनामपि, नवरं यत्र साधूनां मासकल्पस्तत्र साध्वीनां मासद्वयं यावद्वस्तुं कल्पते । तथा सुखशीलस्य - साताभिलाषिणो गुणाः पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैर्यः 'अबुद्धीओ'त्ति तत्त्वज्ञानरहितः, यद्वा 'सुहसीलगुणेहिंति, इत्यत्र सप्तम्यर्थे तृतीया, सुखं च-उपशमसन्तोषलक्षणं शीलं च-मूलगुणलक्षणं गुणाश्च- उत्तरगुणरूपास्तेषु यः, न विद्यते बुद्धिः - अन्तःकरणभावरूपा यस्यासौ अबुद्धिः अबुद्धिरेवाबुद्धिकः भावशून्य इत्यर्थः, यद्वा सुखे मोक्षलक्षणे शीलं स्वभावो येषां ते सुखशीलाःजिनास्तेषां गुणाः केवलज्ञान केवलदर्शनादिरूपास्तेषु यः 'अबुद्धीओ'त्ति अत्र नञ् कुत्सार्थे कुत्सिता विरुद्ध प्ररूपणरूपा बुद्धिः - मतिर्यस्यासौ अबुद्धिकः, 'स' पूर्वोक्तः 'नवरं' केवलं लिङ्गं साधुनेपथ्यरूपं धरतीत्येवंशीलो लिङ्गधारी, द्रव्यलिङ्गधारीत्यर्थः, तथा संयमः पृथिव्यादिः सप्तदशलक्षणः, यथा पृथिवी १ भू २ वह्नि ३ वायु ४ तरु ५ द्वि ६ त्रि ७चतुः ८ पञ्चेन्द्रियाणां ९ मनोवाक्कायैः करणकारणानुमतिभिः संरम्भसमारम्भारम्भवर्जनमिति जीवसंयमः, पुस्तकादीन्
~20~
अधमाचार्यस्वरूपं गा. २३-४
१०
१४