SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४५) ཎྜཱཡྻཱ + ཛཡྻཱཡྻ |||| [६६-६७] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ ५८ ] / गाथा ||६|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ४३ ॥ बज्जजोग' गाहा, व्याख्या - प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्व सावद्ययोगविरतिरर्थाधिकारः, 'उत्तिण'त्ति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणत्वाल्लब्धबोधिविशुद्धिहेतुत्वात् पुनर्योधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाथ तीर्थङ्कराणां गुणोत्कीर्तनार्थाधिकारः, 'गुणवओ य पडिवत्तित्ति गुणा-मूलोत्तरगुणरूपा व्रतपिण्डविशुद्ध्यादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्तिः- वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः, चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति द्रष्टव्यम्, उक्तं च-- “ परियांय परिस पुरिसं खेत्तं कालं च आगमं नाउं । कारणजाए जाए जहारिहं जस्स जं जोगं ॥ १ ॥” 'खलियस्स निंदणन्ति स्खलितस्य मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्ध्यमानाध्यवसायस्याकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'वणतिगिच्छत्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति चारित्र पुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते, 'गुणधारणा चेव'त्ति गुणधारणा प्रत्याख्यानाध्ययने अर्धाधिकारः, अयमत्र भावार्थ:- मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते, चशब्दादन्येऽप्यवान्तरार्थाधिकारा विज्ञेयाः, एवकारोऽवधारण इति गाथार्थः ॥ १ ॥ तदेवं यदादी प्रतिज्ञातम् 'आवश्यकं निक्षेप्स्यामीत्यादि, तत्रावश्यक१ पर्या पर्षदं पुरुषं क्षेत्र कार्य यागमं या कारणजाते जाते यथा यस्य योग्यम् ॥ १ ॥ For P&Praise Cy ~89~ वृत्तिः आवश्य अर्थाधि० ॥ ४३ ॥ entry w
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy