SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [3] दीप अनुक्रम [१] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) HAMARA मूलं [१] / गाथा ||- -|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ २ ॥ नम्, अथवा श्रूयत इति श्रुतं शब्दः स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधिः इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम्, अथवा अवधि:-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन | ज्ञानमवधिज्ञानं । संज्ञिभिर्जीवः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाः- चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं मनःपर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति अवगच्छतीति मनःपर्यायमिति कर्म्मण्यण ( पा० ३-२-१ ), तच्च तद् ज्ञानं च मनः पर्यायज्ञानं । केवलं संपूर्णज्ञेयविषयत्वात् संपूर्ण तच तद् ज्ञानं च केवलज्ञानमिति ॥ अवग्रहादिभेदचिन्ता त्येतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाचेति अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्त्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परम| मङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एवं सकाशात्प्रतीयते, उपक्रमाद्यनुयोगद्वाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृश्रोत्रोः प्रत्येकमनन्तरपरम्परभेदाचिन्तनीयं तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं, श्रोतुश्च प्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थं विजानाति, तत्परिज्ञाने For P&Pas Ch ~7~ वृत्तिः अनुयो० अधि० ॥२॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy