________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [२१] / गाथा ||१...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१]
दीप अनुक्रम [२२]
केशादिषु मृष्टं विद्यते येषां ते मृष्टवन्तः, वत्प्रत्ययलोपान्मृष्टाः, तथा 'तुप्पोट्टत्ति तुमा-प्रक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुमोष्ठाः, तथा मलपरीषहासहिष्णुतादरीकृतत्त्वात् पाण्डुरोधौतः पट:-प्रावरणं येषां ते तधा, 'जिनानामनाज्ञया खच्छन्द विहत्य' तीर्थकराज्ञावाह्याः स्वखरुच्या विविधचेष्टाः कृत्वा तत्रोभयकालं-प्रभातसमयेऽस्तमयसमये च चतुयेथे षष्ठीतिकृरखा आवश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्सरिक द्रव्यावश्यकम् , अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाचाप्रधानतयाऽवसेयं, नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावान्नोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति । अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम्-वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति, तत्र श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेका प्रतिदिनं पुरःकर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महत्ता संवेगेन प्रतिक्रमणकाले आलोचयति, तस्मै च गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन् भणति-पश्यत अहो ! कथमसौ भावमगोपयन अशठतया सर्व समालोचयति ?, सुखं हि आसेवना क्रियते,
दुःखं चेत्थमालोचयितुं, तस्मादशठतयैव शुद्धोधसी, तथा च तं प्रशस्यमानं दृष्ट्वा तत्र अन्येऽप्यगीतार्थश्रमट्राणाः प्रशंसन्ति, चिन्तयन्ति च-गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनापामसकृत्कृतायामपि न कश्चिदोषः,
आलोचनाया एव साध्यत्वाद्, एवं चान्यदा तत्र संविग्नगीतार्थः साधुः कश्चिदायाता, तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्ता-वमित्यमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि-गिरिनगर
~56~