SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४] दीप अनुक्रम [१५] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [१४] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः योऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवर्त्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति-नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो | विशेषवादित्वादस्येह प्राधान्येन विवक्षितत्वाद्यावन्तः केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः । एवमेव 'ववहारस्सवित्ति व्यव | हरणं व्यवहारो लौकिकप्रवृत्तिरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमबदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्व वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान् लोकव्यवहारे च जलाहरणत्रणपिण्डीप्रदानादिके घटनिम्बा| दिविशेषा एवोपकुर्व्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यतेऽसौ न सामान्यं, व्यवहारानुपकारित्वाद्विशेपव्यतिरेकेणानुपलभ्यमानत्वाचेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अग्र चातिदेशेनैवेष्टार्थसिद्धेर्ग्रन्थलाघवार्थे संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम् । 'संगहस्सेत्यादि' सर्वमपि भुवनत्रयान्तर्वर्त्ति वस्तुनिकुरुम्बं संगृह्णाति - सामान्यरूपतयाऽध्यवस्यतीति | संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा | तत्किमित्याह-'से एगेति तदेकं द्रव्यावश्यकम् इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान्, अभिदधाति च-सामान्याद्विशेषा व्यतिरिक्ताः स्युः अव्यतिरिक्ता वा स्युः ?, यद्याथः पक्षस्तर्हि For P&P Cy ~38~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy