SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४] दीप अनुक्रम [१५] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः) मूलं [१४] / गाथा ||१...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ १८ ॥ Ja Eber न सन्त्यमी, निःसामान्यत्वात्, खरविषाणवत्, अथापरः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यखरूपवत्, तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामा| न्याव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति । 'उज्जुसुयस्से'त्यादि ऋजु अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्त्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतं विनष्टत्वान्नाप्यनागतमनुत्पन्नत्वाद्, वर्त्तमानकालभाव्यपि खकीयमेव मन्यते स्वकार्यसाधकत्वात् स्वधनवत्, परकीयं तु नेच्छति वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छइति अतीतानागतभेदतः परकीयभेदतश्च 'पृथकत्वं' पार्थक्यं नेच्छत्यसौ, किं तर्हि ?, वर्त्तमानकालीनं खगतमेव चाभ्युपैति तच्चैकमेवेति भावः, 'तिन्हं सहनयाण मित्यादि, शब्दमधाना नयाः शब्दनयाः शब्दसमभिरूदैवंभूताः, ते हि शब्दमेव प्रधानमिच्छन्तीति, अर्थ तु गौणं, शव्दवशेनैवार्थप्रतीतेः तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीत्यर्थः, 'कम्हे ति कस्मादेवमुच्यते इत्याह- 'जई'त्यादि, यदि ज्ञायकस्तर्ह्यनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद्, इदमत्र हृदयम् आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्रानिर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो ययावश्यकशास्त्रं जानाति कथमनुपयुक्तः, अनुपयुक्तश्चेत् कथं जानाति, ज्ञानस्योपयोगरूपत्वात्, यदद्भ्यागमकारणत्वादात्मदेहादिकमागमत्वेनोक्तं, तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यव For P&Perase City ~39~ वृत्तिः अनुयो० अधि० ॥ १८ ॥ yu
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy