________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप अनुक्रम [२५७
-२७०]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [ १३४] / गाथा ||९९-१००||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
त्यादि, इदमपि सूत्रं पूर्ववद्भावनीयं, नवरं पुष्करसंवर्तस्य- महामेघस्येयं प्ररूपणा इहोत्सर्पिण्यामेकविंशतिव र्षसहस्रमाने दुष्पमदुष्पमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादी सकलजनस्याभ्युदयार्थं क्रमेणामी पञ्च महामेघाः प्रादुर्भविष्यन्ति तद्यथा- पुष्कलसंवर्तक उदकरसः प्रथमः द्वितीयः क्षीरोद्स्तृतीयो घृतोदश्चतुर्थीऽमृतोदः पञ्चमो रसोदः, तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति- नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्यः, 'उदउल्ले सियत्ति उदकेनार्द्रः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया, 'से णं भंते! गंगाए' इत्यादि, गङ्गाया महानद्याः प्रतिश्रोतो हव्यं शीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाभिमुखः स आगच्छेत् तन्मध्येनेति भावः, 'विणिहाय'मित्यादि, विनिघातः- तत्स्रोतसि प्रतिस्खलनं तमापद्येत प्राशुयात्, शेषं पूर्ववत्, 'से णं भंते! उदगावत्त' मित्यादि, उदकावतोदकविन्दोर्मध्ये अवगाद्य तिष्ठेदित्यर्थः 2, स च तत्रोदकसम्पर्कात् कुथ्येद्वा-पूतिभावं यायात् पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः, शेषं तथैव, पूर्वोक्तमेवार्थे संक्षेपतः प्राह-'सत्थेण' गाहा गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेतुं भेत्तुमारभते इत्येतत् किलशब्देन सूचयति, सिद्धत्ति-ज्ञानसिद्धाः केवलिनो, न तु सिद्धाः सिद्धिगताः तेषां वदनस्यासम्भवादिति ।
अनंताणं ववहारिअ परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उसण्हस
For P&Praise City
~326~