________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१३१] / गाथा ||८३-८४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
गाथा
||१-२||
प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति-अभाषक एवायं द्रष्टव्योऽसारवचनत्वादिति, प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया, ननु चनोगौणादिदं न भियते इति चेत्, नैतदेवं, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावमानेणयोक्तत्वादू, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेषः४ । 'से किं तं पाहण्णयाएइत्यादि, प्रधानस्य भावः प्रधानता तया किमपि नाम भवति, यथा बहुष्वशोकवृक्षेषु स्तोकेष्वाम्रादिपादपेष्वशोकप्रधानं वनमशोकवनमिति नाम, सप्तपर्णाः-सप्तच्छदास्तत्प्रधानं वनं सप्तपर्णवनमित्यादि सुगम, नवरमत्राप्याह-ननु गुणनिष्पन्नादिदं न भिद्यते, नैवं, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्थार्थस्य सामस्त्येन व्याप्तत्वादन्न त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावादिति भेदः ५। 'से किं तं अणाइसिद्धतेण मित्यादि, अमनं अन्तो-वाच्यवाचकरूपतया परिच्छेदोऽनादिसिद्धवासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धः-प्रतिष्ठितो योऽसावन्त:-परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच प्राण्याख्यातार्थ धर्मास्तिकायादि, एतेषां च नानामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि खरूपमित्येतावता गौणनाम्नः पृथगेतदुक्तमिति ६ । 'से किं तं नामेण मित्यादि, नाम-पितृपितामहादेवाचकमभिधानं तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, किं पुनस्तदित्याह-'पिउपिआमहस्स नामेणं उन्नामिए'त्ति पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्ता
दीप
अनुक्रम [२३५-२३७]
~288~