________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१३१] / गाथा ||८३-८४|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३१]
अनुयो मलधारीया
॥१४२॥
गाथा
KHABAR
||१-२||
विवक्षितवस्तुधर्मस्य विपरीतो धर्मो विपक्षस्तवाचकं पदं विपक्षपदं तन्निष्पन्नं किञ्चिन्नाम भवति, यथावृत्तिः शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थ शिवा भण्यते, किं सर्वदा?, नेत्याह-'नवेसु'इत्यादि, तत्र असते: बुद्ध्यादीन् गुणानिति ग्राम:-प्रतीतः, आकरो-लोहाद्युत्पत्तिस्थानं, नगर-कररहितं, खेदं-धूलीमयमाकारोपेतं, माधि०
कर्बर्ट-कुनगरं, मडम्ब-सर्वतो दूरवर्तिसन्निवेशान्तरं, द्रोणमुखं-जलपधस्थलपथोपेतं, पत्तन-नानादेशागतकापण्यस्थानं, तच द्विधा-जलपत्तनं स्थलपत्तनं च, रत्नभूमिरिस्यन्ये, आश्रमः-तापसादिस्थानं. सम्बाधा-अति-18
बहुप्रकारलोकसङ्कीर्णस्थानविशेषः, सनिवेशो-घोषादिरथवा ग्रामादीनां द्वन्द्व ते च ते सन्निवेशाश्चेत्येवं योज्यते, ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थं शिवेत्युच्यते, अन्यदा स्वनियमः, तथा कोऽपि कदाचित्केनापि कारणवशेनाग्निः शीतो विषं मधुरमित्याद्याचष्टे, तथा कल्पपालगृहेषु किलाम्ल-| शब्दे समुचारिते सुरा विनश्यति अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते, तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह-'जो अलत्तए' इत्यादि, यो रक्तो लाक्षारसेन प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्लश्रुत्या अलक्तक उच्यते, तथा यदेव लाति-आवृत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्तेर्लाबु तदेव अलावु तुम्बकमभिधीयते, य एव च सुम्भका शुभवर्णकारी स4 एव कुसुम्भकः, आलवंते'त्ति आलपन्-अत्यर्थ लपन्नसमञ्जसमिति गम्यते, स किमित्याह-विवलीयभासए'त्ति ॥१४२॥ भाषकादू विपरीतो विपरीतभाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथा हि सुबहसम्बद्धं
दीप
अनुक्रम [२३५-२३७]
H
~ 287~