________________
आगम
(४५)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[११०]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [९७] / गाथा ||९...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
|धिकानि सप्त शतानि । स्थापना ६५४३२१, आगतम् ७२०, अत्राऽऽयो भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपूवति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थ करणगाथा - 'पुध्वाणुपुडिव हिट्ठा समयाभेएण कुरु जहाजे । उवरिमतुलं पुरओ नसेज पुष्वकमो सेसे ॥ १ ॥ इति, व्याख्या इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः 'हेट्ठ'त्ति अधस्ताद् द्वितीयादिभङ्गकान जिज्ञासुः 'कुरुति स्थापय एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठो, यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एवं च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात्, कथमित्याह - 'समयाभेदेने ति समयः सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेद:- अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठायङ्कनिक्षेपं कुर्याद्, उक्तं च “जहियंमि उ निक्खिते पुणरवि सो चेव होइ कायव्वो । सो होह समयभेओ वज्जेयब्यो पयसेणं ॥ १ ॥” निक्षिप्तस्य चाकस्य यथासम्भवं 'पुरओ'त्ति अग्रतः उपरितनाद्वैस्तुल्यं सदृशं यथा भवत्येवं न्यसेत्, उपरितनाङ्कसदृशाने
१ यस्मिंस्तु निक्षिप्ते पुनरपि स चैव भवति कर्तव्यः स भवति समयभेदो वर्जयितव्यः प्रयमेन ॥ १ ॥
For P&P Cy
~154~