________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [९७] / गाथा ||९...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [९७]
दीप अनुक्रम [११०]
थाऽनुपपत्तेरस्तीति श्रद्धेयं, न च धर्माधर्मास्तिकायावेव तदाधारी भविष्यत इति वक्तव्यं, तयोस्तगतिस्थितिसाधकलेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गादिति । घटादिज्ञानगुणस्य प्रतिप्राणि खसंवेदनसिद्धवाजीवस्यास्तित्वमवसातव्यं, न च गुणिनमन्तरेण गुणसत्ता युक्ता, अतिप्रसङ्गात्, न च देहएवास्य गुणी युज्यते, यतो ज्ञानममूर्त चिद्रूपं सदैवेन्द्रियगोचरातीतत्वादिधम्मोपेतम् , अतः तस्यानुरूप एव ४ कश्चिद्गुणी समन्वेषणीयः, स च जीव एच न तु देहो, विपरीतत्वाद्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तर्थनवस्था, रूपादिगुणानामप्याकाशादेगुणित्त्वकल्पनाप्रसङ्गादिति । पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः प्रत्यक्षत्वाच सत्त्वं प्रतीतमेवेति । कालोऽप्यस्ति बकुलाशोकचम्पकादिषु पुष्पफलप्रदानस्यानियमेनादर्शनाद्, यस्तु तत्र नियामकः स काल इति, स्वभावादेव तु तद्भचने 'नित्यं सत्त्वमसत्त्वं 'त्यादि-18 दृषणप्रसङ्गः, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थदुरवगमताभयादिति । आह-धर्मास्तिकायस्य प्राथम्पमधमास्तिकायादीनां तु तदनन्तरं क्रमेणेत्थं निर्देशः कुतः सिद्धो? येनात्र पूर्वानुपूर्वीरूपता स्यादिति, अत्रीच्यते, आगमे इत्थमेव पठितत्वात् , तत्रापि कथमित्थमेव पाठ इति चेद, उच्यते, धर्मास्तिकाय इत्यत्र यदायं धर्मेति पदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रतिपक्षवादधर्मास्तिकायस्य, ततस्तदाधारवादाकाशास्तिकायस्थ, ततः खाभाविकामूर्तस्वसाम्याजीवास्तिकायस्थ, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवपर्यायस्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिडिरिति । अध
~ 152~