________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
....................... मूलं [-]/गाथा ||३|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
क्षणेभ्यः सन्तानः, किन्तु य एव कार्यकारणभावप्रबन्धेन क्षणानां भावः स एव सन्तानः, ततो न कश्चिद्दोषः, तदप्य-18 आयुक्तम् , भयन्मते कार्यकारणभावस्याप्यघटमानत्वात् , तथाहि-प्रतीत्यसमुत्पादमात्रं कार्यकारणभावः, ततो यथा
विवक्षितघटक्षणानन्तरं घटक्षणः तथा पटादिक्षणोऽपि, यथा च घटक्षणात् प्रागनन्तरो विवक्षितो घटक्षणः तथा पटा&ादिक्षणा अपि, ततः कथं प्रतिनियतकार्यकारणभावावगमः ?, किञ्च कारणादुपजायमानं कार्य सतो वा जायेत
असतो वा ?, यदि सतः तर्हि कार्योत्पत्तिकालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रसङ्गः, न च समकामलयोः कार्यकारणभाव इष्यते, मात्रपत्याद्यविशेषाद्, घटपटादीनामयि परस्परं कार्यकारणभावप्रसङ्गः, अथासत
इति पक्षः, तदप्ययुक्तम् , असतः कार्योत्पादायोगाद्, अन्यथा खरविपाणादपि तदुत्पत्तिप्रसक्तेः, न चासन्ताभावप्रध्वंसाभावयोः कोऽपि विशेपः, उभयत्रापि वस्तुसत्त्वाभावात् , प्रध्वंसाभावे वस्त्वासीत् तेन हेतुरिति चेत् यदाऽऽसीत् तदा न हेतुः अन्यदाच हेतुरिति साध्वी तत्त्वव्यवस्थितिः, अन्यञ्च-तद्भावे भाव इत्यवगमे कार्यकारणभावावगमः, स च तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन ?, न तावत्प्रत्यक्षेण, पूर्ववस्तुगतेन हि प्रत्यक्षेण पूर्व वस्तु परिच्छिन्न-13 मुत्तरवस्तुगतेन तूत्तरं, न चैते परस्परखरूपमवगच्छतो, नाप्यन्योऽनुसन्धाता कश्चिदेकोऽभ्युपगम्यते, तत एतदनन्तरमेतस्य भाव इति कथमवगमः?, नाप्यनुमानेन, तस्य प्रत्यक्षपूर्वकत्वात् , तद्धि लिङ्कलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवत्तंते, लिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण प्रायो नानुमानेन, अनुमानेन ग्रहणेऽनवस्थाप्रसक्तेः, न च कार्यकारणभावविषये
दीप अनुक्रम
% A5%
SAREa
r nama
ForPranaamymucom
~ 74~