________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.................... मूलं [-]/गाथा ||३|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
RESS
सूत्रांक
||३||
*TREASURRORS
कस्योपकर्ता उपधातको वा?, ज्ञानक्षणानां च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपकर्तुं वा अशक्यत्वात् , तन्न दतत्त्ववेदिनः पुत्रादिष्वात्मीयाभिनिवेशो नापि वैरिषु द्वेषो, यस्तु लोकानामात्मात्मीयाद्यभिनिवेशः सोऽनादिवासना
परिपाकोपनीतो वेदितव्यः, अतत्त्वमूलत्वात् , ननु यदि न परमार्थतः कश्चिदुपकार्योपकारकभावः तर्हि कथमुच्यते-भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि च यद्येकान्तेन तर्हि तत्त्ववेदी क्षणानन्तरं विनष्टः सन् न कदाचनाप्येवं भूयो भविष्यामीति जानानः किमर्थं मोक्षाय यत्नमारभते ?, तदयुक्तम् , अभिप्रायापरिज्ञानात् , भगवान् हि प्राचीनायामवस्थायामयस्थितः सकलमपि जगद् रागद्वेषादिदुःखसङ्कुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमिति समुत्पत्रकृपाविशेषो नैराम्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां निक्लेशक्षणोत्पादनाय प्रजाहितो राजेब खसन्ततिशुद्धबै सक| लजगत्साक्षात्करणसमर्थः खसन्ततिगतविशिष्टक्षणोत्पत्तये यत्नमारभते, सकलजगत्साक्षात्कारमन्तरेण सर्वेषामसूण-18 विधानमुपकर्तुमशक्यत्वात् , ततः समुत्पन्नकेवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारवशात् कृतार्थोऽपि देशनायां प्रवर्त्तते । इति, तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोष नैरात्म्यादि वस्तुतत्त्वं परिभाव्य भावतः तथैव भावयतो जन्तोर्भावनाप्रकर्ष-12 विशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभः, यस्त्वात्मानमभिमन्यते न तस्य मुक्तिमम्भवो, यत आत्मनि परमा-3 थतया विद्यमाने तत्र स्नेहः प्रवर्तते, तत्स्नेहवशाच तत्सुखेषु परितर्षवान् भवति, तृष्णावशाच सुखसाधनेषु दोषान्
दीप अनुक्रम
RECENTharana
~ 72 ~