________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||३|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक ||३||
परिणतिविशेषः तावदेक एव कश्चिदोषः प्राप्नोति, अथ च तदवस्थ एव कफादिपरिणतिविशेष सर्वेऽपि दोषाः क्रमेण परावृत्त्य परावृत्त्योपजायमाना उपलभ्यन्ते, अथादृश्यमान एव केवलकार्यविशेषदर्शनोनीयमानसत्ताकः तदा तदा तत्तद्रागादिदोषहेतुः कफादिपरिणतिविशेषो जायते तेन न पूर्वोक्तदोषावकाशः, ननु यदि स परिणतिविशेषः सर्वथा-1 |ऽननुभूयमानखरूपोऽपि परिकल्प्यते तर्हि कम्मैव किं नाभ्युपगम्यते ?, एवं हि लोकशास्त्रमार्गोऽप्याराधितो भवति, अपिच-स कफादिपरिणतिविशेषः कुतः तदा तदाऽन्योऽन्यरूपेणोपजायते इति वक्तव्यम् ?, देहादिति चेत् ननु तदवस्थेऽपि देहे भवद्भिः कार्यविशेषदर्शनतः तस्यान्यथाऽन्यथा भवनमिष्यते, तत्कथं तद् देहनिमित्तं, न हि | यदविशेषेऽपि यद्विक्रियते स विकारः तद्धेतुक इति वक्तुं शक्यम् , नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यन्यथाsन्यथाभवनं कर्महेतुकमेष्टव्यम् , तथा च सति कम्मैवैकमभ्युपगम्यतां किमन्तगेंडुना तहेतुतया कफादिपरिणतिविशेषाभ्युपगमेन ? । किञ्च-अभ्यासजनितप्रसराः प्रायो रागादयः, तथाहि-यथा यथा रागादयः ||
रागादीसेन्यन्ते तथा तथाऽभिवृद्धिरेव तेषामुपजायते, न प्रहाणिः, तेन समानेऽपि कफादिपरिणतिविशेष
नामभ्यासतदवस्थेऽपि च देहे यह जन्मनि परत्र वा यस्मिन् दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते, शेषतु। जन्यता, मन्दतया, ततोऽभ्याससम्पाद्यकर्मोपचयहेतुका एव रागादयो न कफादिहेतुका इति प्रतिपत्तव्यम् । अन्यच-यदि |
दीप अनुक्रम
निरर्थकेन ।
१३
FrParaanaaPaneOm
~68~