________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||३|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
दीप अनुक्रम
यक्खे सहावओ मुचई जेणं ॥१॥" ज्ञानावरणीयकर्मपरमाणुप्रच्यवनानुसारेण चात्मनः शनैः शनैनिमधिकमधिक-2 तरमुलसति, यदा तु ज्ञानादिभावनाप्रकवशेनाशेषज्ञानावरणीयादिकर्मपरमाण्वपगमः तदा सकलानपटलविनिर्मुक्त-18 शशाङ्क इव आत्मा लब्धयधावस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः, अथवा सर्व वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पञ्चास्तिकायात्मको लोकः आकाशास्तिकायात्मकचालोकः, किञ्चिद्विशेषतश्च ऊधिस्तिर्यगलोकाकाशानां सविस्तरं तत्राभिधानात्, शास्त्रानुसारेण च ज्ञानाभ्यासः, ततः तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्षभावः तद्विषयो न विरुध्यते, लानं तु सामान्यतोऽपि न सक-४ ललोकविषयमिति कथमभ्यासतः तत्प्रकर्षः सकललोकविषयो भवेत् ?, स्पादेतद्-यद्यपि सामान्यतः शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासतः तत्प्रकर्षः सकलवस्तुगताशेषविशेषविषय इति कथं ज्ञायते ?, न पत्र किञ्चित् प्रमाणमस्ति, न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते, विपश्चित्ताक्षितिप्रसङ्गात्, तदसत् , अनुमानप्रमाणसद्भावात् , तचानुमानमिदं-जलधिजलपलप्रमाणादयो विशेषाः कस्यचित्प्रत्यक्षाः, ज्ञेय-1 त्वात् , घटादिगतरूपादिविशेषवत् , ज्ञेयत्वं हि ज्ञानवियतया व्याप्तं, न च जलधिजलपलप्रमाणादिरूपेषु है। विशेषेषु प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि-न ते विशेषा अनुमानप्रमाणगम्याः, लिकाभावात् , नाप्यागमगम्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात्, नाप्युपमानगम्याः, तस्य प्रत्यक्षपुरस्सरत्वाद्, उक्तं च-"
न १३
~58~