________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................................... मूल [-]/गाथा ||३|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
निरन्तरमेव यथोक्तानुष्ठानपुरस्सरं शास्त्रमभ्यस्थतां शुद्धचेतसां प्रतिदिवसमभिवर्द्धन्ते प्रज्ञामेधादिगुणाः, ते चाभ्यासा
दभिवर्द्धमाना अद्यापि खसंवेदनप्रमाणेनानुभूयन्ते ततो नासिद्धाः, ततः शनैः शनैरभ्यासप्रकर्षे जायमाने शास्त्रसन्द-18 दर्शितोपायाः वचनगोचरातीताः शेषप्राणिगणसंवेदनागम्याः सिद्धिपदसम्पद्धतवः सूक्ष्मसूक्ष्मतरार्थविषया मनाक् समुल
सत्स्फुटप्रतिभासा ज्ञानविशेषा उत्पद्यन्ते, ततः किञ्चिदूनात्यन्तप्रकर्षसम्भवे मनसोऽपि निरपेक्षमत्यादिज्ञानप्रकर्षपर्यतोत्तरकालभावि केवलज्ञानादक्तिनं सवितुरुदयात् प्राक् तदालोककल्पमशेषरूपादिवस्तुविषयं प्रातिभं ज्ञानमुदयते, तच स्पष्टाभतयेन्द्रियप्रत्यक्षादधिकतरं, न चेदमसिद्धं, सर्वदर्शनेष्वप्यध्यात्मशास्त्रेषु तस्याभिधानात् , अथ प्रथमतो मनःसापेक्षमभ्यासमारब्धवान् , अभ्यासप्रकर्षे तूपजायमाने कथं मनोऽपि नालम्बते ?, उच्यते, अत्यन्ताभ्यासप्रकर्षवशतो | मनोनिरपेक्षमपि शक्तत्वात् , तथाहि-तरणं शिक्षितुकामः प्रथमं तरण्डमपेक्षते, ततोऽभ्यासप्रकर्षयोगतः तरणनिष्णात| स्तरण्डमपि परित्यजति, एवं योग्यपि वेदितव्यः, ततः सर्वोत्कृष्टप्रकर्षसम्भवेऽतीव स्फुटप्रतिभासं सकललोकालोकविषयमनुपममवाध्य केवलज्ञानमुदयते, ततो यदुक्तं 'शास्त्राद्यभ्यासतः शास्त्रप्रभृत्वेवावगच्छत' इत्यादि, तदत्यन्तमध्यात्मशास्त्रयाथात्म्यवेदिगुरुसम्पर्कबहिर्भूतत्वसूचकमवसेयं, स्वादेतत् , तारतम्यदर्शनादस्तु ज्ञानस्य प्रकर्षसम्भवानुमान, स तु प्रकर्षः सकलवस्तुविषय इति कथं श्रद्धेयम् ?, न खलु लङ्कनमभ्यासतः तारतम्यवदप्युपलभ्यमानं सकललोकविषयम-13 पलभ्यते, तदसद् , दृष्टान्तदान्तिकयोवैषम्यात् , तथाहि-न लखनमभ्यासादुपजायते, किन्तु बलविशेषतः, तथाहि-
SC-CGSOMCNORA
दीप अनुक्रम
१३
~56~