________________
आगम (४४)
“नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [१७]/गाथा ||८२-८४|| ... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७]]
परिकर्मसूत्राणाम
-८४॥
तच परिकर्म सिद्धश्रेणिकापरिकर्मादिमूलभेदापेक्षाया सप्तविधं, मातृकापदाद्युत्तरभेदापेक्षया व्यशीतिविघं, तच्च समूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसम्प्रदायतो वा वाच्यं, एतेषां च सिद्ध श्रेणिकाप- रिकर्मादीनां सप्तानां परिकर्मणामाद्यानि पद परिकर्माणि स्खसमयवक्तव्यतानुगतानि, खसिद्धान्तप्रकाशकानीत्यर्थः, ये तु गोशालप्रवर्तिता आजीविकाः पाषंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि तानि (ता.), सप्तापि परिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यदाग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्कहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत्
“जो सामन्नग्गाही स नेगमो संगई गओ अहवा । इयरो वयहारमिओ जो तेण समाणनिदेसो ॥१॥" शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, खत एवं चत्वार एव नयाः, एतश्चतुर्भिर्नयैरायानि पट परिकर्माणि खस|मयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत-"इयाणि परिकम्मे नयचिंता, नेगमो दुविहो-संगहिओ असंग-15 |हिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहार, तम्हा संगहो ववहारो उज्जुसुओ सहाइया य एको, एवं चउरो नया, एएहिं चाहिं नएहि छ ससमइगा परिकम्मा चिंतिजति" तथा चाह सूत्रकृत्-'छ चउकनइयाईति, आद्यानि पटू परिकर्माणि चतुर्नयिकानि-चतुर्नयोपेतानि, तथा त एवं गोशालप्रवर्तिता आजीविकाः पाखण्डिनलेराशिका उच्यन्ते, कस्मादिति चेदुच्यते , इह ते सर्व वस्तु यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च
दीप
अनुक्रम [१५०-१५४]]
Res
~ 480~