________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.................... मूलं [४७]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[४७
भीमलय- मितिकृत्वा समाश्रीयते, अहो! दुरन्तः खदर्शनानुरागो य एवमपि पूर्वापरविरुद्धं भाषयति, अथवा भूषणमेतद- अज्ञानवाबगिरीया
ज्ञानपक्षाभ्युपगमस्य यदित्थं पूर्वापरविरुद्धार्थभाषणं, कथं पूर्वापरविरुद्धार्थभाषितेति चेत्?, उच्यते, युक्तयो हिज्ञा-राधिकार नन्दीपतिः
नमूला भवतां चाज्ञानाभ्युपगमः ततः कथं तास्तत्र घटन्ते? इति पूर्वापरविरुद्धार्थभाषितेति यत्किञ्चिदेतद् । येऽपि च । ॥२२७॥ विनयवादिनो विनयप्रतिपत्तिलक्षणास्तेऽपि मोहान्मुक्तिपथपरिभ्रष्टाः वेदितव्याः, तथाहि-विनयो नाम मुक्त्यङ्गं यो ४|१५
मुक्तिपथानुकूलो न शेषः, मुक्तिपथश्च ज्ञानदर्शनचारित्राणि, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (त०अ०१-सू०१)। इतिवचनात् , ततो ज्ञानादीनां ज्ञानाद्याधाराणां च बहुश्रुतादिपुरुषाणां यो विनयो ज्ञानादिवहुमानप्रतिपत्तिलक्षणः
स ज्ञानादिसम्पवृद्धिहेतुत्वेन परम्परया मुक्त्यमुपजायते, यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुः, यतः 8सुरनृपत्यादिषु विनयो विधीयमानः सुरनृपत्यादिभावविषयं बहुमानमापादयति, अन्यथा विनयकरणाप्रवृत्तेः, सुरन
पत्यादिभावश्च भोगप्रधानः, तद्बहुमाने च भोगबहुमानमेव कृतं परमार्थतो भवतीति दीर्घसंसारपथप्रवृत्तिः, येऽपि च यतिविनयवादिनस्तेऽपि यदि साक्षाद्विनयमेव केवलं मुक्त्यङ्गमिच्छन्ति तर्हि तेऽप्यसमीचीनवादिनो वेदितव्याः,
१ ॥२२७॥ ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षान्मुक्त्यङ्गत्वाभावात्, न खलु ज्ञानदर्शनचारित्ररहिताः केवलपादपतनादिविनयमात्रेण मुक्तिमार्गमनुवते जन्तवः, किन्तु ज्ञानादिसहिताः, ततो ज्ञानादिकमेव साक्षान्मुक्त्यकं न विनयः, कथमेतदवसीयते ?, इति चेदुच्यते, इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्मजालं, कर्मजालक्षयाच मोक्षः २४
दीप अनुक्रम [१४०]
रकर
~ 457~