________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४७]]
सद्यमेव तओ ॥१॥” यदपि च यदृच्छावादिनः प्रलपन्ति-न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि, अज्ञानवायतदपि च कार्याकार्यादिविवेचनपटीयःशेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्स प्रतिनियततया सम्भ
विकार वात् , तथाहि-यः शालूकादुपजायते शालूकः स सदैव शालूकादेव, न गोमयादपि, योऽपि च गोमयादुपजायते शालूकः (ग्रन्थानं ७०००) सोऽपि सदैव गोमयादेव न शालूकादपि, न चानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परं जात्यन्तरत्वात् , योऽपि च बढेरुपजायते बहिः सोऽपि सदैव वहेरेव नारणिकाष्ठादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरणिकाष्ठादेव न वहेरपि, यदपि चोक्तं-बीजादपि जायते कदली'त्यादि, तत्रापि परस्परं विभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया |बीजस्लेव कारणत्वात् , एवं वटादयोऽपि शाखैकदेशादुपजायमानाः परमार्थतो बीजादवगन्तव्याः, तथाहि-शाखातः शाखा प्रभवति, न च शाखा शाखाहेतुका लोके व्यवहियते, वटवीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्र-15 सिद्धत्वात्, एवं शाखैकदेशादपि जायमानो वटः परमार्थतो मूलवटप्रशाखारूप इति मूलबटवीजहेतुक एवं सोऽपि ४ वेदितव्यः, तस्मान्न क्वचिदपि कारणकार्यव्यभिचारः, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः,
एवं च यदुच्यते-'न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्तीति, तद्वाङ्मात्रमि४ाति स्थितं । येऽपि चाज्ञानवादिनो 'न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुप्यादिभावतो दीर्घ
दीप अनुक्रम [१४०]
~ 452~