________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४७]]
विंशतिविशतिर्विकल्पा लभ्यन्ते, ततो विंशतिर्नवगुणिताः शतमशीत्युत्तरं क्रियावादिनां भवति ॥ तथा न कस्यचित्र- क्रियावादप्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा दू विकार।
चाहुः एके-"क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया ?। भूतियैषां क्रिया सैव, कारक सैव चोच्यते ॥१॥" एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिसङ्ख्या द्रष्टव्याः,पुण्यापुण्यवर्जितशेषजीवाजीयादिपदार्थसप्तकन्यासस्तथैव च जीवादिसप्तकस्याधः प्रत्येकं खपरविकल्पोपादानं, असत्त्वादात्मनो नित्यानित्यविकल्पो न स्तः, कालादीनां च पञ्चानामधस्तात्पष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनः एव, न केचिदपि क्रियावादिनः, ततः प्राक् यहच्छा नोपन्यस्ता, तत एवं विकल्पामिलापः-नास्ति जीवः खतः कालत इति इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छापर्यन्तैः, सर्वे मिलिताः षड् विकल्पाः, अमीषां च विकल्पानामर्थः प्राग्वद्भावनीयः, नवरं यहच्छात इति यदृच्छावादिनां मते. अथ के ते यहच्छावादिनः?, उच्यते, इह ये भावानां सन्तानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किन्तु यहच्छया ते यहच्छावादिनः, तथा च ते एवमाहु:-"न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात् , तथाहि-शालूकादपि जायते शालको गोमयादपि जायते शालकः वढेरपि वह्निरुपजायते अरणिकाष्ठादपि धूमादपि जायते धूमोऽमीन्धनसम्पकोदपि जायते कन्दादपि जायते कदली बीजादपि वटादयो बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः कचिदपि
दीप अनुक्रम [१४०]
Fि१३
Namamurary.org
~ 432~