________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४४]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलय- गिरीया
उत्कालिकाधिक
प्रत
नन्दीवृत्तिः
सूत्रांक [४४]
।।२०८॥
कौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवत ऋषभखामिन उत्कृष्टा श्रमण- सम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्घयानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि, भगवतस्तु वर्द्धमानखामिनश्चतुर्दश श्रमणसहस्राणि, तेन प्र| कीर्णकान्यपि भगवतश्चतुर्दश सहस्राणि, अत्र द्वे मते-एके सूरयः प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः | प्रभूततरा अपि तस्मिन् २ ऋषभादिकाले आसीरन् , अपरे पुनरेवं प्रज्ञापयन्ति-ऋपभादितीर्थकृता जीवतामिदं च. तुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतद्वन्था अतत्कालिका अपि तीर्थे वर्तमानास्तत्राधिकृता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह-'अथवे'त्यादि, अथवेति प्रकारान्तरोपदर्शने, यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः-समन्विता आसीरन् तस्य-ऋषभादेस्तावन्ति | प्रकीर्णकसहस्राण्यभवन् , प्रत्येकबुद्धा अपि तावन्त एव, अत्रके व्याचक्षते-इह एकैकस्य तीर्थकृतस्तीर्थेऽपरि-1 |माणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात् , केवलमिह प्रत्येकबुद्धरचितान्येय प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनातू, स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुध्यते,
दीप अनुक्रम [१३७]
२०८॥
FarParenaswamucom
~419~