________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [४४]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
श्रीमलय- गिरीया नन्दीवृत्तिः ॥२०४॥
सूत्रांक [४४]
कानि
विरादिकल्पः तत्प्रतिपादक श्रुतं कल्पश्रुतं, तत्पुनर्दिभेदं, तद्यथा-'चुलकप्पसुयं महाकप्पसुयं एकमल्पग्रन्थमल्पार्थ आवश्यकच द्वितीयं महाग्रन्थं महाथै च, शेषा ग्रन्थविशेषाः प्रायः सुप्रतीताः, तथापि लेशतोऽप्रसिद्धान् व्याख्यास्यामः, तत्र |
कालिको'पण्णवण'त्ति जीवादीनां पदार्थानां प्रज्ञापनं प्रज्ञापना, सैव बृहत्तरा महाप्रज्ञापना, तथा प्रमादाप्रमादस्वरूपभेदफल[विपाकप्रतिपादकमध्ययनं प्रमादाप्रमाद, तत्र प्रमादखरूपमेवं-प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणी यतो विचित्रकर्मोदयसाचिव्यजनितात् परिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते जीवः स खलु प्रमादः, तस्य च प्रमादस्य ये हेतबो मद्यादयस्तेऽपि प्रमादास्तकारणत्वात्मा उक्तंच-"मजं विसय कसाया निद्दा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पाति संसारे ॥१॥" . एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दारुणो विपाकः, उक्तं च-"श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारवन्धनगतेन तु प्रमादःक्षमः कर्तुम् ॥१॥ अस्यामेव हि जातो नरमुपहन्याद्विषं हुताशो वा। आसेवितः प्रमादो हन्याजन्मान्तरशतानि ॥२॥ यन्न प्रयान्ति पुरुषाः खर्ग यच प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः तार प्रमाद इति निश्चितमिदं मे ॥३॥ संसारवन्धनगतो जातिजराव्याधिमरणदुःखाः । यनोद्विजते सत्वः सोऽप्य
दीप अनुक्रम [१३७]
१ मध विषयाः कषायाः निद्रा विकता च पञ्चमी भणिता । एते पच प्रमादा जीवं पातयन्ति संसारे ॥१॥
~ 411~