________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.................... मूलं [४०]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[४०]
देश:-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते है संज्ञासंज्ञियस्य प्राणिनोऽस्ति-विद्यते ईहा-सदर्थपर्यालोचनमपोहो-निश्चयो मार्गणा-अन्वयधर्मान्वेषणरूपा गवेषणा-व्यतिरे-10 श्रुतं कधर्मखरूपपर्यालोचनं चिन्ता-कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं, विमर्शनी विमर्शः-इदमित्थमेव घटते इत्थं वा तद्भूतमित्थमेव वा तद्भावीति यथावस्थितवस्तुखरूपनिर्णयः, स प्राणी 'ण'मिति वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुषादिरोपपातिकश्च देवादिमनःपर्यासियुक्तो विज्ञेयः, तस्यैव त्रिकालविषयचिन्ताविमर्शादिसम्भवाद् , आह च भाष्यकृत्-"इहं दीहकालिगी कालिगित्ति सन्ना जया सुदीईपि । संभरइ भूयमेस्सं चिंतेइ य किह णु काय? ॥१॥ कालियसन्नित्ति तओ जस्स मई सो य तो मणोजोग्गे । खंघेऽणते घेतुं मन्नइ तल्लद्धिसंपत्तो ॥२॥" एप च प्रायः सर्वमप्यर्थ स्फुटरूपमुपलभते, तथाहि-यथा चक्षुष्मान् | प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैपोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति ईहा अपोहो मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च सम्मूछिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः स हि खल्पस्वल्पतरमनोलन्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थ
दीप अनुक्रम [१३३]
१ इ दीर्घकालिकी कालिफोति संशा यया सुरीमपि । स्मरति भूतमेश्वं चिन्तयति च कथं नु कर्त्तव्यम् ! ॥१॥ कालिककी ति सको यस्य मतिः स च ततो मनोयोग्यान् । स्कन्धाननन्तान् गृहीला मन्यते तजब्धिसंपन्नः ॥१॥
SAMEERamanand
.
Irelanditurary.org
~382~