________________
आगम
(४४)
प्रत सूत्रांक [३५-३६]
दीप
अनुक्रम
[११९
-१२०]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ३५-३६ ] / गाथा ||७४... ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
दृष्टान्तोमधुकदृष्टान्तथ सू. ३६
५
किन्तु प्रथमत एव शब्दापायज्ञानमुपजायते, सूत्रेऽपि चाव्यक्तमिति शब्दविशेषणं कृतं, ततोऽयमर्थौ व्याख्येयः - 2 प्रतिवोधकअव्यक्तम्- अनवधारितशाङ्खशार्ङ्गादिविशेषं शब्दं शृणुयादिति इदं च व्याख्यानमुत्तरसूत्रमपि संवादयति — 'तेण सहोति उग्गहिए' तेन प्रमात्रा शब्द इत्यवगृहीतं, 'नो चेव णं जाणइ के बेस सद्दाइ' न पुनरेवं जानाति कः | एप शब्दः शाङ्खः शार्ङ्ग इति वा १, शब्द इत्यत्रादिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति इत्यादि सर्व सम्बद्धमेव, तदेतदयुक्तं, सम्यग् वस्तुतत्त्वापरिज्ञानात्, इह हि यत्किमपि वस्तु निश्चीयते तत्समीहापूर्वकम्, अनीहितस्य सम्यग् निश्चितत्वायोगात्, न खलु प्रथमाक्षिसन्निपाते सत्यधूमदर्शनेऽपि यावत् किमयं धूमः १ किं वा मसकवर्त्तिरिति विमृश्य धूमगतकण्ठक्षणनकालीकरण सोध्मतादिधर्मदर्शनात् सम्यग्धूमत्वेन न विनिश्चिनोति तावत् स धूमो निश्चितो भवति, अनिवर्त्तितशङ्कतया तस्य सम्यगुनिश्चितत्वायोगात्, तस्मादवश्यं यो वस्तुविशेषनिश्वयः स ईहापूर्वकः, शब्दोऽयमिति च निश्चयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात्, ततोऽवश्यमितः पूर्वमीहया भवितव्यं, ईहा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नानवगृहीते, न खलु सर्वथा निरालम्बनमीहनं कापि भवदुपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वाद्, अन्यथा प्रेक्षावत्ताक्षितिप्रसक्तेः, तस्मादीहायाः प्रागवग्रहोंऽपि नियमात्प्रतिपत्तव्यः, अमुमेवार्थ भाष्यकारोऽपि द्रढयति- "ईहि
१ ते नागृहीतं ज्ञायते नानीदितं न चाज्ञातम् । पाते तद्वस्तु तेन क्रमोऽवग्रहादिकः ॥ १ ॥
ternationa
For Para Use Only
~364~
१०
१२