________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.............. मूलं [३५-३६]/गाथा ||७४...|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रतिरोधकदृष्टान्तो
प्रत
मल्लक
दृष्टान्तश्च
सूत्रांक [३५-३६]
दीप अनुक्रम [११९-१२०]
५तिविधस्य, कथमष्टाविंशतिविधतेति, उच्यते, चतुर्की व्यजनावग्रहः पोढा अर्थावग्रहः पोढा ईहा षडियोऽपायः पोढा
धारणा इत्यष्टाविंशतिविधता, एवमष्टाविंशतिविधस्थाभिनिबोधिकज्ञानस्य सम्बन्धी यो व्यञ्जनावग्रहः तस्य स्पष्टतर-1 खरूपप्रतिज्ञापनाय प्ररूपणां करिष्यामि। कथं ? इत्याह-प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, तत्र प्रतिबोधयतीति प्रतिबोधकः-सुप्तस्योत्थापकः स एव दृष्टान्तः प्रतिबोधकरष्टान्तस्तेन, मल्छकं-शरावं तदेव दृष्टान्तो मलकदृष्टान्तस्तेन च, अथ केयं प्रतिबोधकदृष्टान्तेन?, व्यञ्जनावग्रहस्य प्ररूपणेति शेषः, आचार्य आह-प्रतिबोधकरष्टान्तेनेयं व्यअनावग्रहप्ररूपणा, स यथानामको-यथासम्भवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्राप्येकारो मागधिकभाषालक्षणानुसरणात् , तथ प्रागेवानेकश उक्त, कश्चिदनिर्दिष्टनामानं यथासम्भवनामकं पुरुष सुप्तं सन्तं प्रतिबोधयेत् , कथमिसाह-'अमुक अमुक' इति, अत्र एवमुक्ते स 'चोदको' ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नं चोदयतीति चोदकः, यथावस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञापको-गुरुः, तं 'एवं वक्ष्यमाणेन प्रकारेणावादीत् ,भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थो, बदनप्रकारमेव दर्शयति-किमेकसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति ?प्रायतामुपगच्छन्ति, किं वा द्विसमयप्रविष्टाः? इत्यादि सुगम, एवं वदन्तं चोदकं प्रज्ञापकः (एवं-वक्ष्यमाणेन प्रकारेण) 'अवादीत् उक्तवान्-'नो एकसमयप्रविष्टा' इत्यादि, प्रकटार्थ यावन्नो सवयेयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, | नवरमय प्रतिषेधः स्फुटप्रतिभासरूपार्थावग्रहलक्षणविज्ञानग्राह्यतामधिकृत्य वेदितव्यो, यावता पुनः प्रथमसम
CS
~360~