________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.................... मूलं [२९]/गाथा ||७४...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलय- गिरीया
प्रत
नन्दीवृत्तिः
सूत्रांक
॥१७॥
[२९]
दीप
भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः, शब्दस्य त्वाकाशमिति, तदयुक्तम् , शब्दख एवं सति पृथिव्यादीनामप्याकाशगुणत्वासक्तः, तेषामायाकाशाश्रितत्वात , न खल्वाकाशमन्तरेण पृथि- द्रव्यत्वम् व्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत्, न, आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तेः, अथ नाश्रयणमात्रं तद्गुणत्वनिवन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम ?, एकत्र लोलीभावेनावस्थानं यथा पृथिव्यादिरूपाद्योरिति चेत् , न तर्हि शब्दस्याकाशगुणत्वमाकाशेन सहकत्र लोलीभावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य, तूलकादेरपि तर्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्रामोति, अथ तूलकादेः परमार्थतः पृथिन्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात् , यद्येवं तर्हि शब्दस्यापिन परमार्थतः स्थानमाकाशं किन्तु श्रोत्रादि, यत्पुनराकाशेऽवस्थानमुपलभ्यते तद्वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्याश्रवणात्, उक्तं च-"यथा च प्रेर्यते तूलमाकाशे मातरिश्वना । तथा| शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ॥१॥” तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति स्थितम् ।
१७३॥ से किं तं अस्थुग्गहे ?, अत्युग्गहे छव्विहे पण्णत्ते, तंजहा-सोइंदिअअत्थुग्गहे चविखंदिअअस्थुग्गहे || २५ ! घाणिदिअअस्थुग्गहे जिभिदिअअत्थुग्गहे फासिंदिअअत्थुग्गहे नोइंदिअअत्युग्गहे । (सू० ३०)
अनुक्रम
[११३]
~349~