________________
आगम
(४४)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[११३]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ २९ ]/ गाथा ||७४... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
द्यन्ते, तदयुक्तं, आकाशगुणतायां शब्दस्या मूर्त्तत्वप्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाहि-अमूर्त आत्मा, ततस्तगुणो ज्ञानमप्यमूर्त्तमेष, एवं शब्दोऽपि यथाकाशगुणस्तर्धाकाशस्या मूर्त्तत्वाच्छन्दस्यापि तद्गुणत्वेनामूर्त्तता भवेत्, न चासौ युक्तिसङ्गता, तलक्षणायोगात्, मूर्त्तिविरहो यमूर्त्तताया लक्षणं, न च शब्दानां मूर्त्तिविरहः, स्पर्शवत्त्वात्, तथाहि स्पर्शवन्तः शब्दाः, तत्सम्पर्कादुपघातदर्शनाल्लोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते | सद्योजात बालकानां कर्णदेशाभ्यर्णीकृत गाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटो, न चेत्यमुपघातकृत्त्वमस्पर्शवत्वे सम्भवति, यथा विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगह्वरभित्त्यादिषु शब्दोत्थानालोष्टवत्, अयमपि हेतुरुभयोरपि सिद्ध:, तथाहि श्रूयन्ते तीव्रप्रयत्त्रोच्चारितशब्दाभिघाते गिरिगह्वरादिषु प्रतिशब्दाः प्रतिदिक, ततः स्पर्शवत्त्वान्मूर्त्ता एवं शब्दाः, 'रूपस्पर्शादिसन्निवेशो मूर्त्तिरिति वचनप्रामाण्यात्, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् ? । अपि च तदाकाशमेकमनेकं वा ?, यद्येकं तर्हि योजनलक्षादपि श्रूयते, आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेश एव स विद्यते इति कथं भिन्नदेशवर्त्तिभिः श्रोतृभिः श्रूयते ?, वदनदेशाकाशगुणतया तस्य श्रोतृगतश्रोत्रे - न्द्रियाकाशसम्बन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तन्नाकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता
Education Internationa
For Park Lise Only
~348~
शब्दस्य
द्रव्यत्वम्
५
१०
१३
ra