________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................... मूलं [२९/गाथा ||७४...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
का श्रोत्रखप्रा
प्रत
सुत्रांक
[२९]
शब्दपरमाणयो हि उत्पत्तिदेशादारभ्य सर्वतो जलतरङ्गन्यायेन प्रसरमभिगृहानाः श्रोत्रेन्द्रियदेशमागच्छन्ति, ततःसम्भवत्युपघातः, ननु यदि श्रोत्रेन्द्रियं देशं प्राप्तमेव शब्दं गृह्णाति नापासं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरास-18
तिकारिता बादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं तत्र दुरासन्नादिभेदप्रतीतिर्भवितुमर्हति ?, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयन्ते-कस्थापि दूरे शब्द इति, अन्यच्च-यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रियेण श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रेन्द्रियस्य चाण्डालस्पर्शदोषप्रसङ्गः, तन्न श्रेयः श्रोत्रेन्द्रियस्य प्राप्यकारित्वं, तदेतदतिमहामोहस्य मलीमसभाषितं, त (य)तो यद्यपि शब्दः प्राप्तो गृखते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि खभाववैचित्र्यसम्भवाहरासन्नादिभेदप्रतीतिर्भवति,तथाहि-दूरादागतः शब्दः क्षीणशक्तिकत्वात्खिन्न उपलक्ष्यते अस्पष्टरूपोवा, ततो लोको वदति-दूरे शब्दः श्रूयते, अस्य च वाक्यस्यायं भावार्थो-दूरादागतः शब्दः श्रूयते इति, स्यादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि-एतदपि वक्तुं शक्यते-दूरे रूपमुपलभ्यते, किमुक्तं भवति?-दूरागतं रूपमुपलभ्यते इति, ततश्चक्षुरपि प्राप्यकारि प्राप्नोति, न चेष्यते, तस्मान्नैतत्समीचीनमिति, तदयुक्तं, यत इह चक्षुषो। | रूपकृतावनुग्रहोपघाती नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति, एतय प्रागेवोक्तं, ततो नातिप्रसङ्गापादनमुपपत्तिमत् , अन्यच-प्रसासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्द न शृणोति, पवनवम॑नि तु
दीप अनुक्रम
[११३]
१०
M
maanmarary orm
~346~