________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [२८]/गाथा ||७४...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[२८]]
SCSSACCESS SOGS
व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति ब्यञ्जनं-उपकरणेन्द्रियं तेन खसम्बद्धस्मार्थस्य-शब्दादेखग्रहणम्-अव्यक्तरूपःव्यञ्जनावपरिच्छेदो व्यञ्जनावग्रहः, इयमत्र भावना-उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धे प्रथमसमयादारभ्यार्थावग्रहात् ग्रहेज्ञानं प्राक या सुप्तमत्तमूछितादिपुरुषाणामिव शब्दादिद्रव्यसम्बन्धमात्रविषया काचिदव्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, स चान्तर्मुहुर्तप्रमाणः । अत्राह-ननु व्यअनावग्रहवेलायां न किमपि संवेदनं संवेद्यते, तत्कथमसौ ज्ञानरूपो गीयते ?, | उच्यते, अव्यक्तत्वान्न संवेद्यते, ततो न कश्चिद्दोषः,तथाहि-यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य | सम्पृक्ती काचिदपि न ज्ञानमात्रा भवेत् ततो द्वितीयेऽपि समये न भवेत् , विशेषाभावात् , एवं यावच्चरमसमयेऽपि, जय च चरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते, ततःप्रागपि क्वापि कियती ज्ञानमात्रा द्रष्टव्या, अथर मन्येथाः-मा भूत्प्रथमसमयादिपु शब्दादिपरिणतद्रव्यसम्बन्धेऽपि काचिदपि ज्ञानमात्रा, शब्दादिपरिणतद्रव्याणां |
तेषु समयेषु स्तोकत्वात् , चरमसमये तु भविष्यति, शब्दादिरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो भावात् , तदयुक्तं, कायतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात सम्प्रक्तायव्यक्ताऽपि काचिदपि ज्ञानमात्रा न समुलसेत् | लातहिं प्रभूतसमुदायसम्पर्केऽपि न भवेत् , न खलु सिकताकणेष प्रत्येकमसति तैललेशे समुदायऽपि तल समुद्भवदुपल
भ्यते, अस्ति च चरमसमये प्रभूतशब्दादिद्रव्यसम्पृक्ती ज्ञानं ततः प्राक्तनेष्वपि समयेषु स्तोकस्तोकतरेरपि शब्दादिपरिणतद्रव्यैः सम्बन्ध काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपि ज्ञानानुपपत्तः, तथा चोक्त
दीप अनुक्रम [११२]
१०
~340~