________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६६
-६८||
दीप
अनुक्रम
[१०१
-१०३]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२७] / गाथा ||६८||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
******
प्रभूतं द्रव्यं दत्तवन्तः, राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चिदेतद् ज्ञात्वा चिन्तितम् अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमध्येनमापदो निस्तारयामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कामपि शाीं वदन्ति - "अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा वदन्ति - अहो दीर्घ तृणं, पूर्व च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः, तत आचार्येण ज्ञातं - सर्व मम विरक्तं, केवलमेते कुमारा मम भक्तिवशात् ज्ञापयन्ति, ततो यथा न लक्ष्यते तथा पलाययामास कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः १३ । 'निधोदणं'ति काऽपि वणिग्भार्या चिरं प्रोषिते भर्त्तरि दास्या निजसद्भावं निवेदयति - आनय कमपि पुरुषमिति, ततस्तया समानीतो, नखप्रक्षालनादिकं च सर्वे तस्य कारितं, रात्रौ च तौ द्वावपि सम्भोगाय द्वितीय भूमिकामा रूढी, मेघश्च वृष्टिं कर्तुमारब्धवान् ततस्तेन तृषापीडितेन पुरुषेण नीत्रोदकं पीतं, तदपि च त्वग्विपभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एवं शून्यदेवकुलिकायां मोचितः प्रभाते च दृष्टो दाण्डपाशिकैः परिभावितं सद्यः तत्तस्य नखादिकर्म्म, ततः पृष्टाः सर्वेऽपि नापिताः -- केनेदं भोः कृतमस्य नखादिकं कर्मेति ?, तत एकेन नापितेनोकं मया कृतमसुकाभिधवणिग्भार्यादासचेट्या देशेन, ततः सा पृष्टा - सापि च पूर्व न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास, दाण्डपाशिकानां वैनयिकी बुद्धिः १४ । 'गोणे घोडगपडणं च रुक्खाओ' कोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति, ततोऽन्यदा
For Parts Only
~328~
वैनयिकीबुबुदा
हरणानि
५
१३