________________
आगम
(४४)
प्रत
सूत्रांक [२७...]
गाथा
||६६
-६८||
दीप
अनुक्रम [१०१
-१०३]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२७] / गाथा ||६८||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
******
कथं त्वं न सम्यक् पाठितः १, ततः स प्राचीनं वृत्तान्तं सकलमचीकथत् यावदेतस्य ज्ञानं सर्व सत्यं न ममेति, ततो गुरुणा विमृश्यकारी पृष्टः कथय बत्स ! कथं त्वयेदं ज्ञातमिति ?, ततः स प्राह - मया युष्मत्पादादेशेन विमर्शः कर्त्तुमारब्धो यथैतानि हस्तिरूपस्य पदानि सुप्रतीतान्येव, विशेषचिन्तायां तु किं हस्तिन उत हस्तिन्याः ?, तत्र कायिकीं दृष्ट्वा हस्तिन्या इति निश्चितं, दक्षिणेन च पार्श्वे वृत्तिसमारूढवलीवितान आलुनविशीष्णों हस्तिनीकृतो दृष्टो न वामपार्श्वे ततो निश्चिक्ये नूनं वामेन चक्षुषा काणेति, तथा नान्य एवंविधपरिकरोपेतो हस्तिन्यामधिरूढो गन्तुमर्हति ततोऽवश्यं राजकीयं किमपि मानुषं यातीति निश्चितं तच मानुषं कचित्प्रदेशे हस्तिन्या उत्तीर्य शरीर चिन्तां कृतवत्, कायिकीं दृष्ट्वा राज्ञीति निश्चितं, वृक्षावलभर क्तवस्त्रदशालेशदर्शनात् सभर्तृका, भूमौ हस्तं निवेश्योत्थानाकारदर्शनाद्वर्षी, दक्षिणचरणनिस्सहमोचननिवेशदर्शनात्प्रजने कल्येति । वृद्धखियाः प्रश्नानन्तरं घटनिपाते चैवं विमर्शः कृतो-यथेप घटो यत उत्पन्नस्तत्रैव मिलितस्तथा पुत्रोऽपीति । तत एवमुक्ते गुरुणा स विमृश्यकारी चक्षुषा सानन्दमीक्षितः प्रशंसितश्च द्वितीयं प्रत्युवाच - तव दोषो यन्न विमर्श करोपि, न मम, वयं हि शास्त्रार्थमात्रोपदेशेऽधिकृताः विमर्शे तु यूयमिति । विमृश्यकारिणो वैनयिकी बुद्धिः १ । 'अत्थसत्थे 'ति अर्थशास्त्रे कल्पको मनी दृष्टान्तो, 'दहिकुंडग उच्छुकलावओ य' इति संविधान के, 'लेह'त्ति लिपिपरिज्ञानं, 'गणिए'त्ति गणितपरिज्ञानं, एते च द्वे अपि वैनयिक्यौ बुद्धी २-३-४ । 'कूवेत्ति खातपरिज्ञानकुशलेन केनाप्युक्तं
For Penal Use On
~324~
22 कल्पकलिपिगणितानि
५
१०
१३
yor