________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||६५|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
दृष्टान्तः
गाथा
||६२
कृतवती, राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास, तत्र च कोऽपि क्षुलको भिक्षार्थमटन् पटहशब्दं श्रुतवान् , श्रुतश्च प्रतिज्ञार्थः, ततो धृतवान् पटह, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकः, ततस्तं लघु दृष्ट्वा सा परिव्राजिकाऽऽत्मीयं मुखं विकृत्यावज्ञयाऽभिधत्ते-कथय कुतो मिलामि ?, तत एवमुक्ते क्षुल्लकः खं मेण्डूं दर्शितवान् , ततो हसितं सर्वैरपि जनैः, उपुष्टं च-जिता जिता परिवाजिका, तस्या एवं कर्तृमशक्यत्वात् , ततः क्षुल्लकः। कायिक्या पद्ममालिखितवान् , सा कत्तुं न शक्नोति, ततो जिता परित्राजिका । क्षुल्लकस्योत्पत्तिकी बुद्धिः१३ । 'मग्ग'त्ति मार्गोदाहरणं, तद्भावना-कोऽपि पुरुषो निजभार्या गृहीत्वा वाहनेन नामान्तरं व्रजति, अपान्तराले च कचित् प्रदेशे शरीरचिन्तानिमित्तं तद्भार्या वाहनादुत्तीर्णवती, तस्यां च शरीरचिन्तानिमित्तं कियभागं गतायां तत्प्रदेशवर्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागस वाहनं विलना, सा च तद्भार्या शरीरचिन्तां विधाय यावद्वाहनसमीपमागच्छति तावदन्यां स्त्रियमात्मसमानरूपां वाहनमधिरूढां पश्यति,सा च व्यन्तरी पुरुषं प्रत्याह-एषा काचिद्वषन्तरी मदीयं रूपमारचय्य तव सकाशमभिलपति ततः खेटय २ सत्वरं सौरभेयाविति, ततः स पुरुषस्तथैव कृतवान् , सा चारटन्ती पश्चालमा समागच्छति, पुरुषोऽपि तामारटन्ती रष्ट्वा मूढचेता मन्दं मन्दं | खेटयामास, ततः प्रावर्तत तयोस्तद्भार्यान्यन्तोर्निष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वन्नुदासीनो वर्त्तते, ततः कारणिकैः पुरुषो दूरे व्यवस्थापितो, भणिते च ते द्वे अपि च
-६५||
दीप
१०
अनुक्रम [९७
RE
m
ational
~310~