________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
*******
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
श्रीमलय
गिरीया नन्दीवृत्तिः
॥१५३॥
Educator
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२७] / गाथा || ६५ ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
******
देशत्यागेन, तेनापि जज्ञे नूनमकथयत् पूर्ववृत्तान्तं देवो देव्याः, तेन मे चुकोप देवी, ततो महान्तमुपानहां भरमादाय गतो देवीसकाशं, विज्ञपयामास देव-देवि ! यामो देशान्तराणि, देवी उपानहां भरं पार्श्वे स्थितं दृष्ट्वा पृष्टवती-रे किमेष उपानहाम्भरः १, सोऽवादीत् - देवि ! यावन्ति देशान्तराण्येतायतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः कीर्त्तिर्निस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्तिर्जायेतेति परिभाव्य देवी बलात्तं धारयामास । बिटस्यौत्पत्तिकी बुद्धिः १० | 'गोलो'त्ति गोलकोदाहरणं, तद्भावना - लाक्षागोलकः कस्यापि चालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवार्तां बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशलाकया शनैः शनैर्यलतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्योत्पत्तिकी बुद्धिः ११ । 'खंभ' २० ति स्तम्भोदाहरणं, तद्भावना - राजा मत्रिणमेकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तम्भमेकं निक्षेपयामास तत ४ एवं घोषणां कारितवान्न्यो नाम तटे स्थितोऽमुं स्तम्भं दवरकेण बध्नाति तस्मै राजा शतसहस्रं प्रयच्छतीति तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कीलकं भूमौ निक्षिप्य दवरकेण बद्धा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भं बद्धवान्, लोकेन च बुद्ध्यतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मत्रिणमकार्षीत् । तस्य पुरुषस्योत्पत्तिकी बुद्धिः १२ । 'खुल्लक'चि क्षुलकोदाहरणं, तद्भावना - कस्मिंश्चित्पुरे काचित् परिव्राजिका, सा यो यत्करोति तदहं कुशलकर्मा सबै करोमीति राज्ञः समक्षं प्रतिज्ञां
For Pale Only
~309~
औत्पत्तिक्यां गोल
स्तम्भ
क्षुल्लक
दृष्टान्ताः
॥१५३॥
२५
२६