________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||६५|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा
||६२
संस्पर्शतो जातकामोद्रेका तमपि भोगायाशंसितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः सम्भवन्ति तन्नोत्पत्तिकी गिरीया जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकवुद्धिविनन्दाष्टात्तस्मितचेताः खावासप्रासादमगमत् , रोहकं च सर्वेषां मत्रिणां मूर्धाभिषिक्तं मत्रिणमकापीत् १॥ तदेवं 'भरहसिलेति'
दृष्टान्ताः ॥१४९।। व्याख्यातं । सम्प्रति पणियंति व्याख्यायते-द्वौ पुरुषी-एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामेयकः खग्रामाच्चि
भटिका आनयन् प्रतोलीद्वारे वर्तते, तं प्रति नागरिकः प्राह-योताः सर्वा अपि तव चिर्भटिका भक्षयामि ततः किं मे प्रयच्छसीति ?, ग्रामेयकः प्राह-योऽनेन प्रतोलीद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यामपि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेण ताः सर्वा अपि चिर्भटिका मनाक २ भक्षयित्वा मुक्ताः, उक्तं
चामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाश्चिर्भटिकाः, ततः प्रयच्छ मे यथाप्रतिज्ञातं मोदकमिति, ग्रामेयक दआह-न मे चिर्भटिका भक्षिताः, ततः कथं ते प्रयच्छामि मोदकमिति ?, नागरिकः प्राह-भक्षिता मया सर्वा
अपि तव चिर्भटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययमुत्पादयामि ते, तेनोक्तम्-उत्पादय प्रत्ययं, ततो द्वाभ्यामपि वि-18 पणिवीथ्यां विस्तारिता विक्रयाय चिर्भटिकाः, समागतो लोकः क्रयाय, ताश्च चिटिका निरीक्ष्य लोको बक्ति-ननु
भक्षितास्त्वदीयाः सर्वा अपि चिर्भटिकास्तत्कथं वयं गृहीमः १, एवं च लोकेनोके साक्षिणां ग्रामेयकस्य च प्रतीतिरुदिपादि, क्षुभितो ग्रामेयक:-हा कथं नु नाम मया तावत्प्रमाणो मोदको दातव्यः?, ततः स भयेन कम्पमानो विन
-६५||
दीप
अनुक्रम [९७
२५
~ 301~