________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||६५|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
ॐ45-5-
[२७...]
गाथा
||६२
प्राचीनमपि दुष्टराजादेशसिन्धुं त्वयैव निजवुद्धिसेतुबन्धेन समुत्तारितः सर्वोऽपि ग्रामः, ततः सम्प्रत्यपि प्रगुणीकुरु | निजबुद्धिसेतुबन्धं येनास्यापि दुष्टराजादेशसिन्धोः पारमधिगच्छाम इति, तत उवाच रोहको-वृकं प्रत्यासन्नं धृत्वा मेण्ढकमेनं यवसदानेन पुष्टीकुरुत, यवसं हि भक्षयनेष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न बलवृद्धिमाप्स्यतीति, त-14 तस्ते तथैव कृतवन्तः, पक्षातिकमे च तं राज्ञः समर्पयामासुः, तोलने च स तावत्पलप्रमाण एव जातः । ततो भूयोऽपि कतिपयदिनानन्तरं राज्ञा कुर्कुटः प्रेषितः, एष द्वितीयं कुर्कुटं विना योधितव्य इति, एवं सम्प्राप्ते राजादेशे
मिलितः सर्वोऽपि ग्रामो बहिः सभायाम् आकारितो रोहकः कथितश्च तस्य राजादेशः, ततो रोहकेणादर्शको महाउप्रमाण आनायितो निमृष्टश्च भूत्या सम्यक, ततो धृतः पुरो राजकर्कटस्य, ततः स राजकुटः प्रतिविम्बमात्मीयमादशेर
दृष्ट्वा मत्प्रतिपक्षोऽयमपरः कुर्कुट इति मत्वा साहङ्कारं योढुं प्रवृत्तो, जडचेतसो हि प्रायस्तियञ्चो भवन्ति, एवं चापरकुर्कुटमन्तरेण योधिते राजकुकुंटे विस्मितः सर्वोऽपि ग्रामंलोकः, सम्पादितो राजादेशः, निवेदितं च राज्ञो निजपुरुषैः। ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान-युष्मद्वामस्य सर्वतः समीपे अतीव रमणीया वालुका विद्यन्ते, ततः स्थूला वालुकामयाः कतिपये दवरकाः कृत्वा शीघ्रं प्रेषणीया इति, एवं राजादेशे समागते मिलितः
सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरमदायि-नटा वयं, ततो नृत्तमेव ययं कतु जानीमो कान दवरकादि, राजादेशश्चावश्य कर्तव्यः, ततो बृहद्राजकुलमिति चिरन्तना अपि कतिचिद्वालुकामया दवरका
164%95
-६५||
दीप अनुक्रम [९७
~296~