________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [२४]/गाथा ||६०...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सुत्रांक [२४]
दीप अनुक्रम [१३]
श्रीमलय पेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सत्यपवादमाह-'मोत्तूणं दवसुर्य मुक्त्वा द्रव्यश्रुवं, किमुक्तं भवति ?- श्रुतलक्षणम् गिरीया &
४मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दार्थपर्यालोचनात्मिक शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञान-M
रूपत्वात् , यच द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, न तु केव- १५ ॥१४२॥ लोऽक्षरलाभः, केवलो बक्षरलाभो मतावपीहादिरूपायां भवति, न च सा श्रुतज्ञानं । अत्राह-ननु यदि शेपेन्द्रि
येष्वक्षरलाभः श्रुतं तर्हि यदधावरणमुक्तं-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमिति तद्विघटते, शेपेन्द्रियोपलब्धेरपि सम्प्रति श्रुतत्वेन प्रतिपन्नत्वात् , नैप दोषः, यतः शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिदोषः । इतश्च मतिश्रुतयोर्भेदो-वल्कसमं। मतिज्ञानं, कारणत्वात् , शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात् , ततो यथा वल्कशुम्बयो दस्तथा मतिश्रुतयोरपि । इतश्च | भेदो-मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरं, तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पकत्वाद् , ईहादिज्ञानं साक्षरं, तस्य परामर्शादिरूपतयाऽवश्यं वारुषितत्वात् , श्रुतज्ञानं पुनः साक्षरमेव, अक्षर-1 मन्तरेण शब्दार्थपर्यालोचनस्यानुपपत्तेः । इतश्च मतिश्रुतयोभदो-मूककल्पं मतिज्ञानं, खमात्रप्रत्यायनफलत्वात् , अमूककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वात् , तथा चामूने भेदहेतून् भाष्यकृत् संगृहीतवान्-"लक्षणभेया हेऊफल१ लक्षणभेदात् हेतुफलभानात भेद इन्द्रियविभागात् । बकाम्बाक्षरानक्षरमूकेतरभेदात् भेदो मतिश्रुतयोः ॥ १ ॥
२४
~ 287~