________________
आगम
(४४)
“नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [२४]/गाथा ||६०...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४]
दीप अनुक्रम
तथा सूत्रेऽनेकशोऽभिधानात् , संज्ञा चाभिलाष उच्यते, यत उक्तमावश्यकटीकायाम्-'आहारसंज्ञा-आहाराभिलाषा प्रवद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः' इति, अभिलाषश्च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः स-12 ये
मीचीनं भवतीत्येवं शब्दार्थालेखानुविद्धः खपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायः, स च श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात् , शब्दार्थपर्यालोचनात्मकत्वं च ममैवरूपं वस्तु पुष्टिकारि तबदीदमवाप्यते इत्येवमादीनां | शब्दानामन्तर्जल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् , श्रुतस्य चैवलक्षणत्वात् , उक्तं च-1 "इन्दियमणोनिमित्तं जं विनाणं सुयानुसारेणं । नियअत्थोत्तिसमत्थं तं भावसुर्य मई सेसं ॥१॥" 'सुयाणुसारेणं'ति शब्दार्थपर्यालोचनानुसारेण, शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्वार्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव, किंच-नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरस्स-1 रीकारेण शब्दसंस्पृष्टार्थग्रहणमवसेयम् , अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः, यदप्युच्यते-ययेवलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते न शेषस्यैकेन्द्रियखेति, तदप्यसमीक्षितार्थाभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात् , तथाहि-बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं भावेन्द्रियपश्चकविज्ञानमभ्युपगम्यते, 'पंचिंदिओऽवि बउलो' इत्यादिभाष्यकारवचनप्रामाण्यात् , तथा भाषा१ इन्द्रियमनोनिविसं यद्विज्ञानं श्रुतानुसारेण । निजकाक्तिसमर्थ तद् भावभुतं मतिः शेषम् ॥१॥
RSS
[९३]
०
~ 284~