________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.............. मूलं [२२]/गाथा ||१९||......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२२]
*
सिद्धिप्रसक्तः, यदप्युक्तं 'न चैतदपि समीचीनमित्यादि' तदपि न समीचीनं, क्षयोपशमाविशेषेऽपि मत्यादीनामिव श जीवस्वाभाव्यादेव केवलज्ञानावरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात्, अथोच्येत "दवतोणं नाभेदनिकेवलनाणी सचदवाई जाणइ पासइ" इत्यादि सूत्र केवलज्ञानकेवलदर्शनाभेदप्रतिपादनपरं, केवलज्ञानिन एव सतो रासः ज्ञानदर्शनयोरभेदेन विषयनिर्देशात् , सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यते इति ?, तत्राह-'भन्नइ
जहोहिनाणी जाणइ पासइ य भासियं सुत्ते । न य नाम ओहिदंसणनाणेगत्तं तह इहपि ॥ २० ॥' 'भण्यते' अत्रो- ५ उत्तरं दीयते-यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भाषितं, तदुक्तं-"दचओणं ओहिनाणी उक्कोसेणं सच्चाई
रूविदवाई जाणइ पासई" इत्यादि, न च तथा सूत्रे भणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्वं, तथा इहापि| केवलज्ञानकेवलदर्शनयोरेकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः प्रवृत्तेः, अपि च-जानाति है। | पश्यति चेति द्वावपि शब्दावेकाचौं न भवतो, नापि तत्र सूत्रे एकार्थिकवक्तव्यताधिकारः, किन्तु सामान्यविशेषविपयाधिगमाभिधानपरौ । ततश्च-'जह पासइ तह पासउ पासइ जेणेह दंसणं तं से । जाणइ जेणं अरिहा तं से नाणंति घेत्तयं ॥२१॥' 'यथा' येन प्रकारेण ज्ञानादभेदेन भेदेन वा पश्यति तथा पश्यतु, एतावत्तु वयं ब्रूमो-येन सामान्यावगमाकारेणार्हन् पश्यति तदर्शनमिति ज्ञातव्यं, येन पुनर्विशेषावगमरूपेणाकारेण जानाति तत् 'से' तस्थाहतो ज्ञानमिति, न च युगपदुपयोगद्वयं, अनेकशः सूत्रे निषेधात् , ततः क्रमेण भगवतो ज्ञानं दर्शनं चेति । एतदेव सूत्रेण बा१३
दीप
अनक्रम
[९०]
05-06-964
*
SARER
a manand
relunurary.org
~ 278~