________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
....................... मूल [-]/गाथा ||१|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
||१||
सामान्य, विपर्ययात्, न च तदर्थक्रियासमर्थ वस्तु शाब्दे ज्ञाने प्रतिभासते, तस्मादवस्तुविषया एते शब्दाः, तथा |चात्र प्रमाणं-योऽर्थः शाब्दे ज्ञाने येन शब्देन सह संस्पृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्द-18 स्थाश्चा, नावभासते चेन्द्रियगम्योऽर्थः शान्दे ज्ञाने शब्देन संस्पृष्ट इति, यो हि यस्य शब्दस्यार्थः स तेन सह संस्पृष्टः शाब्दे ज्ञाने प्रतिभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिवन्धनत्वाद् वाच्यत्वस्येति, तदेतदसमीचीनम्, इन्द्रियगम्यार्थस्य शाब्दे ज्ञाने शब्देन सहानवमासासिद्धेः, तथाहि-कृष्णं महान्तमखण्ड मसृणमपूर्वमप-2 वरकात् घटमानयेत्युक्तः कश्चित् तज्ज्ञानायरणक्षयोपशमयुक्तः तमय तथैव प्रत्यक्षमिव शाब्दे ज्ञाने प्रतिपद्यते, तदन्यघटमध्ये तदानयनाय तं प्रति भेदेन प्रवर्तनात् , तथैव च तत्प्राप्तेः, अथ तत्राप्यस्फुटरूप एव वस्तुनः प्रतिभासोऽनुभूयते, स्कुटाभं च प्रत्यक्ष, तत्कथं प्रत्यक्षगम्यं वस्तु शाब्दज्ञानस्य विषयः, नैष दोषः, स्फुटास्फुटरूपप्रतिभासभेदमात्रेण प्रस्तुभेदायोगात्, तथाहि-एकस्मिन्नेव नीलवस्तुनि दूरासन्नवर्तिप्रतिपत्तृज्ञाने स्फुटास्फुटप्रतिभासे उपलभ्येते, न च तत्र वस्तुभेदाभ्युपगमः, द्वयोरपि प्रत्यक्षप्रमाणतयाऽभ्युपगमात, तोहाप्येकस्मिन्नपि वस्तुनीन्द्रियजशा-14 ब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतो, न च तद्गोचरवस्तुभेदः, अथ वस्त्वभावेऽपि शाब्दज्ञानप्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानं न तद्याधात्म्यसंस्पर्शि, तभावाभावयोरननुविधानात्, यस्य हि ज्ञानस्य प्रतिभासो यस्य भावाभावावनुविधत्ते तत्तस्य परिच्छेदकं, न च शाब्दज्ञानप्रतिभासो वस्तुनो भावाभावावनु
दीप अनुक्रम
१३
I
shanana
~ 24~