________________
आगम
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
(४४)
..................... मूलं [-]/गाथा ||१|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रामाण्यं.
नन्दीवृत्ति
प्रत सूत्रांक ||१||
दीप अनुक्रम
श्रीमलय-18|उत नेति ?, तत्र यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमितरथा त्वसत्यत्वम्, आसेतरवियेकोऽपि परि-181 गिरीयाशीलनेन लिङ्गतो वा कुतश्चिदवसेयो, निपुणेन हि प्रतिपत्रा भवितव्यं, यदप्युक्तं 'यदपि च विनष्टमनुत्पन्नं वा तदपि
न खरूपेण समस्तीत्यादि' तत्रापि यदि विनष्टानुत्पन्नयोतिमानिकविद्यमानरूपाभिधायकः शब्दः प्रवर्तते तर्हि स ॥१०॥ निरर्थकोऽभ्युपगम्यत एव,ततो न तेन व्यभिचारः, यदा तु ते अपि विनष्टानुत्पन्ने विनष्टानुत्पन्नतयाऽभिधचे शब्दः तदा
तद्विषयसर्वज्ञज्ञानमिव सद्भूतार्थविषयत्वास प्रमाणम्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथाऽतीतकल्पान्तरवर्तिपार्थादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवादिदेशना च सर्वथा नोपपद्येत, तद्विषयज्ञाने शब्दप्रवृत्त्यभावात, अथोच्येत-अनलेऽनलशब्दः तदभिधानखभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्तते स जले नास्ति, जलानलयोरभेदप्रसाद, अथ च प्रवर्तते सङ्केतवशाजलेऽप्यनलशब्दः तत्कथं शब्दार्थयोर्वास्तवः सम्बन्धः?, तदसत्, शब्दस्यानेकशक्तिसमन्वितत्वेनोक्तदोषानुपपत्तेः, तथाहि-नानलशब्दस्यानलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एवैकः खभा-14 वः, अपि तु समयाधानतत्स्मरणपूर्वकतया विलम्वितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानस्वभावोऽपि, तथा तस्यापि प्रतीतेः, अन्यथा निर्हेतुकत्वेन तत्प्रतीत्यभावप्रसङ्गात्, ननु कथमेते शब्दा वस्तु-enen विषयाः प्रतिज्ञायन्ते ?, चक्षुरादीन्द्रियसमुत्थबुद्धाविव शाब्दे ज्ञाने वस्तुनोऽप्रतिभासनात् , यदेव चक्षुरादीन्द्रियबुद्धो प्रतिभासते व्यक्त्यन्तराननुयायि प्रतिनियतदेशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्वात्, नेतरत्परपरिकल्पितं 11
FaPaumaan unconm
~ 23~