________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.................... मूल [१७]/गाथा ||५७...|| ........... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
या
प्रत
श्रीमलय- गिरीया नन्दीवृत्तिः ॥१०७॥
सुत्राक
[१७]
दीप अनुक्रम
माणुसोत्तरनगं स गंदिस्सरं तु विइएणं । एइ तओ तइएणं कयचेइयवंदणो इहयं ॥४॥ पढमेण नंदणवणे विह- उप्पाएण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ ॥५॥" तथा सर्व-विषमूत्रादिकमौषधं यस्य सा सर्वोषधः, किमुक्तं भवति ?-यस्य मूत्रं विद श्लेष्मा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आधशब्दा-12 | दामोषध्यादिलब्धिपरिग्रहः, तथा आमपोषध्यादीनामन्यतमामृद्धिमवध्य॒द्धिं वा प्राप्तस्य मनःपर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्वृद्धिप्राप्तस्यैवेति नियममाचक्षते, तदयुकं, सिद्धप्राभृतादाववधिमन्तरेणापि मनःपर्यायज्ञानस्यानेकशोऽभिधानात् । अत्राह-मनुष्याणामुत्पद्यते इत्युक्ते सामर्थ्यांदमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कथमुच्यते 'नो अमणुस्साणं उप्पजई' इत्यादि, निरर्थकत्वाद् ?, उच्यते, इह त्रिधा विनेयाः, तद्यथा-उद्घटितज्ञा मध्यमबुद्धयः प्रपश्चितज्ञाश्च, तत्र ये उद्घटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपश्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषेधस्थाभिधानं, महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते, ततो न कश्चिदोषः।
तं च दुविहं उप्पजइ, तंजहा-उज्जुमई य विउलमई य, तं समासओ चउव्विहं पन्नतं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं उज्जुमई णं अणते अणंतपएसिए खंधे जाणइ पासइ ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धतराए वितिमि
[८१]
॥१०७॥
~217~