________________
आगम
(४४)
प्रत
सूत्रांक
[<]
दीप
अनुक्रम
[६०]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [८] / गाथा || ४७...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
दयभावतः तेषां क्षयोपशमासम्भवाद्, अथ च मतिज्ञानादिवलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोष वैवखत मुखोपनिपातित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि । क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्द्धकानां, | देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिवादरसम्परायाद्वायां, ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते, ततोऽवश्यमेतदुररी कर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथ यथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि | अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरणकेवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते ?, उच्यते, तथाखाभाव्यात्, तथाहि - तथारूपा एव ते पुद्गलाः केवलज्ञानकेवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयनिरोधसम्भवः, शेषाणां तु सर्वघातिप्रकृतीनां रसस्पर्द्धकानि भवन्त्येवाध्यवसायविशेषतो विपाकोदयविष्कम्भभाञ्जि, तथास्वाभाव्याद्, एतचावसीयते तथाकार्यदर्शनात् तथाहि सम्यक्त्वसम्यगृमिथ्यात्व देशविरतिसामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्पराय संयमाः क्षायोपशमिका उपवर्ण्यन्ते, यत उक्तं- "खओवसमिया सम्मदंसणलद्धी खओवसमिया सम्मा
१ क्षायोपशमिकी सम्यग्दर्शनलब्धिः क्षायोपशमिकी सम्प
For Park at Use Only
~162~
देशवात्पूदये क्षयोपशुमभावः
५
१०
१३