________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [३]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३]
दीप अनुक्रम [५५]
लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः खखविषये इन्द्रियप्र|लब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः, इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे त्यक्षभेदाः इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं यत् इन्द्रियप्रत्यक्षं न भवति, नो-II शब्दः सर्वनिषेधयाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्षं न भवतीति सिद्धम् ॥ | से किं तं इंदिअपञ्चक्खं ?. इंदिअपच्चक्खं पंचविहं पण्णत्तं, तंजहा-सोइंदिअपच्चक्खं चक्खिदिअप-12 चक्खं धाणिदिअपच्चक्खं जिभिदिअपच्चक्खं फासिंदिअपच्चक्खं, से तं इंदिअपच्चक्खं । (सू०४)
अथ किं तदिन्द्रियप्रत्यक्षं?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञसं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, तत्र श्रोत्रेन्द्रियस्य प्रत्यक्षं श्रोत्रेन्द्रियप्रत्यक्षं, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः,एवं शेषेष्वपि भावनीयमाएतच व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागुक्तम् । आह-स्पर्शनरसनप्राणचक्षुःश्रोत्राणीन्द्रियाणीति क्रमः, अयमेव च समीचीनः, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभसम्भवात् , ततः किमर्थमुत्क्रमोपन्यासः कृतः?, उच्यते, अस्ति पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थ, अपि च-शेषेन्द्रियापेक्षया श्रोत्रेन्द्रियं पटु, ततः श्रोत्रेन्द्रियस्य यत् प्रत्यक्षं तच्छेपेन्द्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं चोपवर्ण्यमानं विनेयः सुखेनावबुध्यते, ततः सुखप्रतिपत्तये श्रोत्रेन्द्रियादिक्रमः उक्तः ॥
SARE DELatural
~154~