________________
आगम
(४४)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम
[५४]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२] / गाथा || ४७...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “ नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
नापि सूत्रे क्वचिदपि प्रत्यक्षमिति व्यवहृतं, ततो न तत्र कश्चिद्विवादः ॥ तदेवं प्रत्यक्षं परोक्षं चेति भेदद्वयोपन्यासे कृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते
से किं तं पच्चक्खं ?, पञ्चक्खं दुविहं पण्णत्तं, तंजहा- इंदियपञ्चक्खं नोइंदियपच्चक्खं च । (सू० ३)
शब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थे वर्त्तते, अथशब्दार्थ [ब्द]श्च प्रक्रियाद्यर्थाभिधायी, यत उक्तं"अथ प्रक्रियाप्रश्नानन्तर्यमङ्ग लोपन्यासप्रतिवचनसमुच्चयेष्विति, इह चोपन्यासार्थो वेदितव्यः, 'कि' मिति परप्रभे, तत्त्रागुपदिष्टं प्रत्यक्ष ( क्षं कि ) मिति ?, एवं शिष्येण प्रचे कृते सति न्यायमार्गोपदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारेण प्रतिवचनमभिधातुकाम आह— 'पञ्चक्षमित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका भावनीया । प्रत्यक्षं द्विविधं प्रज्ञसं, तद्यथा - इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च तत्र 'इदु पर मैश्वर्ये' 'उदितो न'मिति नम् इन्दनादिन्द्रः - आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्गं-चिहमविनाभावि इन्द्रियम् 'इन्द्रिय' मितिनिपातनसूत्राद्रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च तत्र | द्रव्येन्द्रियं द्विधा - निर्वृत्तिरुपकरणं च निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा वाह्या अभ्य अन्तरा च तत्र बाह्या कर्ण पटकादिरूपा, सापि विचित्रा-न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहिमनुष्यस्य श्रोत्रे समे नेत्रयोरुभयपार्श्वतः संस्थिते वाजिनोः मस्तकें नेत्रयोरुपरिष्टाद्भाविनी तीक्ष्णे चाग्रभागे
Education International
प्रत्यक्षज्ञानस्य भेद-प्रभेदानां निरूपणं
For late Only
~152~
इन्द्रियनोइन्द्रियप्र
त्यक्षम् . सू. ३
१०
१३