________________
आगम
(४४)
“नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..................... मूलं [२]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२]
दीप अनुक्रम [५४]
तम्, अभ्यासदशामापनस्यापि साक्षादनवबोधात् , तस्यापीन्द्रियद्वारेणावयोधप्रवृत्तेरवश्यमिन्द्रियसागुण्यापेक्षणात्, ऐन्द्रियकेवलमभ्यासप्रकर्षवशात्तदिन्द्रियसाद्गुण्यं झटित्येवावधारयति, पूर्वावधृतं च झटित्येव निश्चिनोति, ततः कालसौ-कस्य परोक्षम्यात्तन्नोपलभ्यते, इत्थं चैतदङ्गीकर्तव्यम्, यतोऽवश्यमवायज्ञानमवग्रहहापूर्व, ईहा च विचारणात्मिका, विचारचेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः, अन्यथैकतरविचाराभावेऽवायज्ञानस्य सम्यगज्ञानत्वायोगात्, न खल्विन्द्रिये । वस्तुनि वा सम्यगविचारितेऽवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसाद्गुण्यावधारणमवसेयं, यदपि चोक्तम्-'न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात्साक्षान्न भोक्तेति व्यपदेष्टुं शक्यमिति' तदप्ययुक्तं, दृष्टान्तदान्तिकावैषम्याद्, भोक्ता हि भुजिक्रियानुभवभागी भण्यते, भुजिक्रियाऽनुभवश्च देवदत्तस्य न हस्तेन व्यवधीयते, किन्तु साक्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते न परिच्छेद क्रियायामिन्द्रियमिवाहारक्रियानुभवेऽपि येन व्यवधानं भवेत् , ततः साक्षाद्देवदत्तो भोक्तेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्तनीया चक्षुरादीन्द्रियसागुपयावगमानुसारेणोपजायते, ततो व्यवधानान्न साक्षादुपलम्भक आत्मेति । नन्विदं सर्वमप्युत्सूत्रप्ररूपणं, सूत्रे ह्यनन्तरमेवेन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुपदेक्ष्यते-'पञ्चक्खं दुविहं पन्नत्तं, तंजहा-इंदियपञ्चक्खं नोइंदियपचक्खं चेति सत्यमेतत, किन्त्विदं लोकव्यवहारमधिकृत्योक्तं, न परमार्थतः, तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति व्यवहृतं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्तनात् , यत्पुन
REAmrikinnamond
anditurary.com
~150~