________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||१|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
नन्दीवृत्तिः
जीवसत्तासिद्धि चार्वाकखंडन
प्रत सूत्रांक ||१||
AN
दीप अनुक्रम
श्रीमलय-1
18|जायन्ते, किञ्च-समानयोनिका अपि विचित्रवर्णसंस्थाना दृश्यन्ते प्राणिनः, तथाहि-गोमयायेकयोनिसम्भवि- गिरीया
नोऽपि केचिन्नीलतनवोऽपरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नमेव, तद्यदि भूतमात्र
निमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुः, न च भवन्ति, तस्मादात्मान एव तत्तत्क॥४॥
मर्मवशात्तथोत्पद्यन्ते इति प्रतिपत्तव्यं । स्यादेतत्-तदाऽऽगच्छन् गच्छन् वा नात्मोपलभ्यते, केवलं देहे सति संवेदन|मुपलभ्यते, देहाभावे च भरमावस्थायां न, तस्मान्नास्त्यात्मा, किन्तु संवेदनमात्रमेवैकमस्ति, तच देहकार्य, देहे एव च समाश्रितं, कुड्ये चित्रवत्, न चित्रं कुड्यविरहितमवतिष्ठति, नापि कुड्यान्तरं सङ्कामति, नागतं वा कुड्यान्तरात, किन्तु कुड्ये एव उत्पन्नं कुड्ये एव च विलीयते, एवं संवेदनमपि, तदप्यसत, आत्मा हि खरूपेणामूर्तः, आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तम्-“अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन्नात्मा, नाभावोऽनीक्षणादपि ॥१॥" तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तूपलभ्यते एप, तथाहि-कृमेरपि जन्तोसत्कालोत्पन्नस्थाप्यस्ति निजशरीरविषयः प्रतिबन्धः, उपघातकमुपलभ्य पलायनदर्शनात, यश्च यद्विषयः प्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकः, तथादर्शनात्, न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजनितसंस्कारनिवन्धन इति सिद्धमात्मनो जन्मान्तरादागमनम्, उक्तं च-"शरीराग्रहरूपस्य, चेतसः सम्भवो यदा । जन्मादौ
~ 11~