________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||१|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
||१||
मदशक्तिरदृष्टाऽपि समुदाये भवतीति दृश्यते तद्वचैतन्यमपि भविष्यति को दोषः ?, तदयुक्तं, प्रत्येकमपि मद्याङ्गेषु प्रत्येकं मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् , तथाहि-दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पेषु च मनाक् विकलतोत्पादकतेत्यादि, न चैवं चैतन्यं सामान्यतो भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद् भवितुमर्हति , मा प्रापत् सर्वस्य सर्वत्र भावप्रसक्त्याऽतिप्रसङ्गः । किञ्च-यदि चैतन्यं धर्मत्वेन प्रतिपन्नं ततोऽवश्यमस्थानुरूपो धर्मी प्रतिपत्तव्यः, आनुरूप्पाभावे जलकाठिन्ययोरिख धर्मिधर्मभावानुपपत्तेः, न च भूतान्यनुरूपो धर्मी, लक्षण्यात्, तथाहि-चैतन्यं वोधस्वरूपममूर्त च, भूतानि च तद्विलक्षणानि, तत्कथमेतेषां परस्परं धर्मम्मिभावः ? । नापि चैतन्यमिद्रं भूतानां कार्यम्, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्थाप्ययोगात्, उक्तं च-"काठिन्याबोधरूपाणि, भूतान्यध्यक्षसिद्धितः । चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् ? ॥१॥" अपिच-यदि भूतकार्य चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति ?, परिणतिविशेषसद्भावाभावादिति चेत् ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ?, सोपि हि भूतमात्रनिमित्तक एव ततः कथं तस्यापि कचित्कदाचिद्भावः ?, अन्यच्चस किंरूपः परिणतिविशेष इति वाच्यम्, कठिनत्वादिरूप इति चेत्, तथाहि-काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेष इति, तदप्यसत्, व्यभिचारदर्शनात् , तथाहि-अविशिप्टेऽपि कठिनत्वादिविशेषे कचिद्भवन्ति कचिन्न कचिच कठिनत्वादिविशेषमन्तरेणापि संस्खेदजा नभसि च संमूछिमा
दीप अनुक्रम
Miurvastaram.org
~ 10~